SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ ८७) अ. ३ सू. ३] . काव्यानुशासनम् १९३ मधुर्माधवश्च वसन्तः । यथा चैत्र मदर्धिः शुकसारिकाणां हारीतदात्यूहमधुवतानाम् । पुंस्कोकिलानां सहकारबन्धुर्मदस्य कालः पुनरेष एव ॥२९३॥ मनोऽधिकं चात्र विलासलास्ये प्रेतास दोलासु च सुन्दरीणाम् । गीते च गौरीचरितावतंसे पूजाप्रपञ्चे च मनोभवस्य ॥२९४॥ ५ पुस्कोकिल: कूजति पञ्चमेन बलाद्विलासा युवतेः स्फुरन्ति । स्मरो वसन्तेऽत्र नवैः प्रसूनैः खचापयष्टेर्घटनां करोति ॥२९५।। . पिनमाहारजनांशुकानां सीमन्तसिन्दूरजुषां वसन्ते । स्मरीकृते प्रेयसि भक्तिभाजां विशेषवेषः स्वदते वधूनाम् ॥२९६॥ ] १० अयं प्रसूनो रकर्णिकारः पुष्पप्रपञ्चाञ्चितकाञ्चनारः । विजृम्भणाकोविदकोविदारः कालो विकासोद्धरसिन्दुवारः ॥२९७॥ रोहितकाम्रातककिङ्कराता मधूकमोचाः सह माधवीभिः । जयन्ति शोभांजनकश्च शाखी सशेखरः पुष्पभरेर्वसन्तः ॥२९८॥ यो माधवीमुकुलदृष्टिषु वेणिबन्धो ___ यः कोकिलाकलरुते कथने च लाभः ।। पूजाविधिदमनकेन च यः स्मरस्य तस्मिन् मधुः स भगवान् गुरुरङ्गनानाम् ॥ २९९ ॥ . नालिङ्गितः कुरबकस्तिलको न दृष्टो नो ताडितश्च चरणैः सुदृशामशोकः । सिक्तो न वक्त्रमधुना बकुलश्च चैत्रे चित्रं तथापि भवति प्रसवावकीर्णः ॥ ३०० ॥ चैत्रे चित्रौ रक्तनीलावशोको स्वर्णाशोकस्तत्ततीयश्च पीतः । जैत्रं तन्त्रं तत्प्रसूनान्तरेभ्यश्चेतोयोनेभूर्भुवः स्वस्त्रयेऽपि ॥३०१॥ 1. N. रजतांशुकानां. 2. A. drops को विद 3. N. सोद्धतसिन्धुवारः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy