SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ ८७) अ. ३ स. ३] काव्यानुशासनम् - १९१ विमुक्तबर्दा विमदा मयूराः प्ररूढगोधूमयवा च सीमा । व्याघ्रीप्रसूतिः सलिलं सबाष्पं हेमन्तलिङ्गानि जयन्त्यमूनि ॥२७७॥ सशमीधान्यपाकानि क्षेत्राण्यत्र हरन्ति च ।। त्रिशङ्कतिलका रात्र्यः पच्यन्ते लवणानि च ॥ २७८ ।। उद्यानानां मूकपुंस्कोकिलत्वं भृङ्गस्त्रीणां मौनमुद्रा मुखेषु । मन्दोद्योगा पत्त्रिणां व्योमयात्रा हेमन्ते स्यात्सर्पदर्पक्षयश्च ॥२७९॥ कर्कन्धूनां नागरङ्गीफलानां पाकोद्रेकः खाण्डवोऽप्याविरस्ति । कृष्णेक्षणां पुण्ड्रक्राणां च गर्ने माधुर्यश्रीर्जायते काप्यपूर्वा ॥२८॥ येषां मध्येमन्दिरं तल्पसम्पत् पार्श्वे दाराः स्फारतारुण्यताराः । लीलावह्निनिगुतोद्दामधूमस्ते हेमन्तं ग्रीष्मशेष विदन्ति ॥२८१॥ वायुरत्रोदीच्यः पाश्चात्यो वा। यथा लम्पाकीनां किरन्तश्चिकुरविरचनां रुल्लकालासयन्त*चुम्बन्तश्चन्द्रभागां विचितसुमनसः कुङ्कुमान्कम्पयन्तः । एते कस्तूरिकैणप्रणयसुरभयो वल्लभा बाह्रवीनां कौलतीकेलिकाराः परिचयितहिमं वायवो वान्त्युदीच्याः ॥२८२॥ [ बा. रा. अं. ५ श्लो. ३५ ] यथा च भञ्जन भूर्जद्रुमालीस्तुहिनगिरितटेषूद्तत्वक्करालारेवाम्भः स्थूलवीचीचयचकितचलच्चातक व्याधुनानः । पाश्चात्यो वाति वेगाद् द्रुततुहिनशिलाशीकरासारवर्ष मातङ्गक्षुण्णसान्द्रसुतसरलसरत्सारसारी समीरः ॥ २८३ ॥ २५ तपस्तपस्यश्च शिशिरः । स च हेमन्तधर्म एव । विशेषस्तुरात्रिविचित्रसुरतोचितयामदीर्घा चण्डो मरुद् वहति कुङ्कुमपक्कसाध्यः । तल्पस्थितिर्द्विगुणतूलपटा किमन्यदर्घन्ति चात्र विततागुरुधूपधूमाः ॥२८॥ 3. A. drops सरत्सार I. A. drops मुद्रा 2. C. वदन्ति 4. A. drops from कुङ्कुम to °स्थिति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy