SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् [८७) अ. ३ सू. ३ नद्यो वहन्ति कुटिलक्रमयुक्तशुक्तिरेखाङ्कबालपुलिनोदरसुप्तकूर्माः । अस्यां तरङ्गितनुतोयपलायमानमीनानुसारिबकदत्तकरालफालाः ॥२६९॥ अपकिलतटावटः शफरफाण्टफालोज्ज्वल: पतत्कुररकातरभ्रमददभ्रमीनार्भकः । लुठत्कमठसैकतश्चलबकोटवाचाटितः सरित्सलिलसंचयः शरदि मेदुरः सीदति ॥ २७० ।। वायुश्चात्रानियतदिक्कः । यथा उषःसु वराकृष्टजडावश्यायशीकराः । शेफालीकलिकाकोशकषायामोदिनोऽनिलाः ॥ २७१ ॥ सहाः सहस्यश्च हेमन्तः । यथा द्वित्रमुचुकुन्दकलिकस्त्रिचतुरमुकुलः क्रमेण लवलीषु । पञ्चषफलिनीकुसुमो जयति हिमतुर्नवावतारः ॥ २७२ ॥ पुन्नागरोध्रप्रसवावतंसाः वामभुव: कञ्चककुञ्चिताङ्गाः । वक्त्रोल्लसत्कुङ्कुमसिक्थकाढयाः सगन्धतैलाः कबरीवहन्ति ॥२७३।। यथा यथा पुष्यति शीतकालस्तुषारचूर्णोत्करकीर्णवातः । तथा तथा यौवनशालिनीनां कवोष्णतामत्र कुचा लभन्ते ॥२७॥ वराहवध्राणि नवौदनानि दधीनि संनदरसानि चात्र । सुकोमलाः सर्षपकन्दलीश्च भुक्त्वा जनो निन्दति वैद्यविद्याम् ॥२७५॥ अत्रोपचारः सलिलैः कवोष्णैर्यत्किञ्चिदत्र स्वदतेऽन्नपानम् । सुदुर्भगामत्र निपीडय शेते स्वस्त्यस्तु नित्यं तुहिनतवेऽस्मै ॥२७६।। ____1. C. दन्त 2. N. तु हिमर्तवे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy