________________
१८८
काव्यानुशासनम्
[८६) अ. ३. सू. ३
या केलियात्रा किल कामिनीमिर्या तुङ्गहाणविलासशय्या । चतुःसमं यन्मृगनाभिगर्भ सा वारिदतोंः प्रथमातिथेयी ॥२५३॥
चलचटुलचातकः कृतकुरङ्गरागोदयः सद१ररवोद्यमो मदभरप्रगल्भोरगः । शिखण्डिकुलताण्डवामुदितमद्गकङ्कायो वियोगिषु घनागमः स्मरविषं विषं मुञ्चति ॥ २५४ ॥
दलत्कुटजकुड्डलः स्फुटितनीपपुष्पोत्करो नवप्रसवबान्धवः प्रचितमञ्जरीकार्जुनः । कदम्बकलुषाम्बरः कलितकेतकीकोरकश्वलनिचुलसंचयो हरति हन्त धर्मात्ययः ॥ २५५ ॥
तत्र पाश्चात्यः पौरस्त्यो वा वायुरिति कविसमयः । यथा
प्रावृष्यम्भोभृताम्भोदभरनिर्भरमम्बरम् । कदम्बकुसुमामोदा वायवो वान्ति वारुणाः ॥ २५६ ॥
यथा च
पौरस्त्यस्तोयदतो: पवन इव पतन्पावकस्येव धूमो विश्वस्येवादिसर्गः प्रणव इव परं पावनं वेदराशेः । सन्ध्यानत्तोत्सवेच्छोरिव मदनरिपोर्नन्दिनान्दीनिनादः सौरस्याग्रे सुखं वो वितरतु विनतानन्दनः स्यन्दनस्य ॥२५७॥
[सू. श. लो. ५५. ] इष ऊर्जश्व शरत् । यथाप्रोन्मादयन्ती विमदान्मयूरान्प्रगल्भयन्ती कुररद्विरेफान् शरत्समभ्येति विकास्य पद्मानुन्मीलयन्ती कुमुदोत्पलानि ॥२५८॥ सा भाति पुष्पाणि विशेषयन्ती बन्धूकबाणासनकुङ्कुमेषु । शेफालिकासप्तपलाशकाशभाण्डीरसौगन्धिकमालतीषु ॥२५९॥
२५
1. A. प्रावृष्याम्भो. 2. B. °न्मोद०. C °न्मुद. 3. A. drops from लिका to कारण्डव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org