SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ૨૮૪ काव्यानुशासनम् [८७) अ. ३ सू. ३ चतसृष्वपि दिक्षु रणे द्विषतः प्रति येन चित्रचरितेन । विहितमपूर्वमदक्षिणमपश्चिममनुत्तरं कर्म ॥ २३० ॥ ५ ऐन्याग्नेयी याम्या नैर्ऋती वारुणी वायव्या कौबेर्थेशानी चाष्टौ दिश इत्यन्ये । यथा एक ज्योतिर्दृशौ द्वे त्रिजगति गदितान्यब्जजास्यैश्चतुर्भि भूतानां पञ्चमं यान्यलमृतुषु तथा षट्सु नानाविधानि । युष्माकै तानि सप्त त्रिदशमुनिनुतान्यष्टदिग्भाजि भानोर्यान्ति प्राढ़े नवत्वं दश दधतु शिव दीधितीनां शतानि ॥२३१ [ सू. श. श्लो. १३. ] ब्राह्मी नागीया च द्वे, ताभ्यां सह दशेत्यपरे । यथा दशदिक्कूटपर्यन्तसीमसंकटभूमिके । विषमा स्थूललक्षस्य ब्रह्माण्डग्रामके स्थितिः ॥ २३२ ॥ सर्वमस्तु । विवक्षा परतन्त्रा हि दिशामियत्ता। तत्र चित्रास्वात्यन्तरे प्राची तदनुसारेण प्रतीची। ध्रुवेणोदीची, तदनुसारेणापाची । अन्तरेषु विदिशः । ऊर्य ब्राह्मी । अधस्तान्नागीयेति । द्विधा च दिग्व्यवहारः कवीनां प्राक् सिद्धो विशिष्टस्थानावधिसाध्यश्च । तत्र प्राक् सिद्ध प्राची द्वित्रैोम्नि पुराणमौक्तिकमणिच्छायैः स्थितं तारकैज्योत्स्नापानभरालसेन वपुषा सुप्ताश्चकोराङ्गनाः । यातोऽस्ताचलचूलमुद्वसमधुच्छत्रच्छविश्चन्द्रमाः प्राची बालबिडाललोचनरुचां जाता च पात्रं ककुप्, ॥२३३॥ [वि. शा. भ. अं. १ श्लो. ११ ] दक्षिणा दक्षिणो दक्षिणामाशां यियासन् सोऽधिकं बभौ । जिहासन् दक्षिणामाशां भगवानिव भास्करः ॥ २३४ ॥ पश्चिमा पश्य पश्चिमदिगन्तलम्बिना निर्मितं मितकथे विवखता । दीर्घया प्रतिमया सरोम्भसस्तापनीयमिव सेतुबन्धनम् ॥२३५॥ [ कु. सं. स. ८. श्लो. ३४. ] 1. A. B. एकज्योति० 2. A. B. drop तदनुसारेण प्रतीची 3. A. B. प्राचीप्रतीच्यौ० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy