________________
८७) अ. ३ स. ३]
काव्यानुशासनम्
१८३
५
7
१०
सिक्यकोङ्कणकोल्लगिरिवेलरप्रमृतयो जमपदाः । विन्ध्यदक्षिणपादमहेन्द्रमलयमेकलपालमञ्जरसह्यश्रीपर्वतादयः पर्वताः। नर्मदातापीपयोष्णीगोदावरीकावेरीभैमरथी वेणीकृष्णवेणीव रातुङ्गभद्राताम्रपर्युपलावतीरावणगङ्गाद्या नद्यः । तदुत्पत्तिर्मलयोत्पत्त्या व्याख्याता ।
देवसभायाः परत: पश्चाद्देशः । तत्र देवसभसुराष्ट्रदशेरकत्रवणभृगुकच्छ- कच्छीयानादब्राह्मणवाहववनप्रभृत्यो . जनपदाः । गोवर्धनगिरिनगरदेवसभमाल्यशिखराबुदादयः पर्वताः । सरस्वती वभ्रवतीमार्तधीमहीहिण्डिवाद्या नद्यः । करीरपीलुगुग्गलुखर्जरकरभादीनामुत्पादः ।।
पृथूदकात्परत उत्तरापथः-यत्र शककेकयबोक्काणहूणवनायुजकम्बोजवाहीकबहूबलम्पाककुलतकीरतङ्गणसुवारतुरुष्कर्वरहरहूरहुहुकसहुडहंसमार्गरमठकरकण्ठप्रभृतयो जनपदाः । हिमालयजालन्धरकलिन्द्रेन्द्रकीलचन्द्राचलादयः पर्वताः । गङ्गासिन्धुसरस्वतीशतद्रुचन्द्रभागायमुनरावतीवितस्ताविपाशाकुहूदेषिकाद्या नद्यः । सरलदेवदारुद्राक्षाफुङमचमराजिनसौवीरस्रोतोजनसैन्धववैडूर्यतुरगाणामुत्पादः । तेषां मध्ये मध्यदेश इति कविव्यवहार इति । यदाहुः(59) हिमवद्विवन्ध्ययोर्मध्यं यत्प्राविनशनादपि । प्रत्यगेव प्रयागाच मध्यदेशः स कीर्तितः ॥
[म. स्म. अ. २ श्लो. २१ ] तत्र ये देशाः पर्वताः सरितो द्रव्याणामुत्पादश्च तत्प्रसिद्धिसिद्धमिति न निर्दिष्टम् । (60) द्वीपान्तराणां ये देशाः पर्वताः सरितस्तथा ।
नातिप्रयोज्याः कविभिरिति गाढं न चिन्तिताः ।। विनशनप्रयागकोर्गङ्गायमुनयोश्चान्तरमन्तर्वेदी । सदपेक्षया दिशो विभजेतेति केचित् । वयं तु ब्रूमः-तथाऽत्रापि महोदयमूलमवधीकृत्य दिशो विभजेत । प्राच्चवाचीप्रतीच्युदीची च चतस्रो दिश इत्येके । यथा
1 A. °कौल° B. कोल्ल C. कोल्लारप्रभतयो 2 B. पादहेन्द्र. N. माहेन्द्र. 3 B. omit कावेरी 4. A. B. रवी 5. C. omits कुम्मायणी 6. A. B. °पयेपला° N. णीपला° 7. C. °माल° 8. C omitsgur
१५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org