SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ ८७) अ. ३. सू. ३] काव्यानुशासनम् १७९ एवं देशकालवयोजात्यादीनां वेषव्यवहारादि समुचितमेवोपनिबद्धव्यम् । देशकाल योजात्यादीनामिति । तत्र जगन्नगदेकदेशाश्च देशः । द्यावापृथिव्यात्मकमेकं जगदित्येके यथा हलमगु बलस्यैको कोऽनङ्कान्हरस्य न लाल क्रमपरिमिता भूमिर्विष्णोर्न गौर्न च लाङ्गलम् । प्रभवति कृषिर्नाद्याप्येषां द्वितीयगवं विना जगति सकले नैदग्दृष्टं दरिद्रकुटुम्बकम् ॥ २११ ॥ [ दिवस्पृथिव्यौ द्वे जगतीत्यपरे । यथारुणद्धि रोदसी चास्य यावत्कीर्तिरनश्वरी । तावत्किलायमध्यास्ते सुकृती वैबुधं पदम् ॥ २१२ ॥ 1 स्वर्गमर्त्यपातालभेदात् त्रीणि जगन्तीत्यपरे । यथा - त्वमेव देव पातालमाशानां त्वं निबन्धनम् । त्वं चामरमिरेको लोकत्रयात्मकः ॥ २१३ ॥ [ [ भामहालङ्कार. परि. १. श्लो. ७ ] तान्येव भूर्भुवः स्वः - इत्यन्ये । यथानमस्त्रिभुवन भोगवृतिखेदभरादिव । नागनाथाङ्कपर्यङ्कशायिने शार्ङ्गधन्विने ॥ २१४ ॥ [ 1: महर्जनस्तपः सत्यमित्येतैः सह सप्तेत्यपरे । यथासंस्तम्भिनी पृथुनितम्बतरैर्धरित्र्याः संवाहिनी जलमुचां चलकेतुहस्तैः । हर्षस्य सप्तभुवनप्रथितोरुकीर्तेः प्रासादपङ्क्ति रियमुच्छिखरा विभाति ॥ ११५ ॥ [ तानि सप्तमिर्वायुस्कन्धैः सह चतुर्दशेति केचित् । यथा 1 C. मृत्यु Jain Education International 1 For Private & Personal Use Only ] ] ] ५ १० १५ २० २५ www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy