SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् [८७) अ. ३ स. ३ तु यावदवदानं प्रसिद्धमुचितं वा तावदेव वर्णमीयम् । अधिकं तु निबध्यमानमसत्यप्रतिभासेन नायकवद्वर्तिव्य, न प्रतिनायकवदित्युपदेशे न पर्यवस्येत् । एवमुक्तार्ना प्रकृतीनामन्यथावर्णनं व्यत्ययः । तथा तत्रभवन् भगवन्निति उत्तमेन वाच्यम् , नाधमेन । मुनि५ प्रभृतौ न राजादौ । भट्टारकेति न राजादौ । परमेश्वरेति न मुनि प्रभृतौ । प्रकृतिव्यत्ययापत्तेः । यदाह(15) तत्र भवन् भगवन्निति नार्हत्यधमो गरीयसो वक्तुम् । भट्टारकेति च पुन वैतानुत्तमप्रकृतिः ॥ सत्रभवम् भगवनिति नैवाहत्युत्तमोऽपि राजानं । बक्तुं नापि कथञ्चिन्मुनि च परमेश्वरेशेति ॥ ' [ रु. का. मलं. ६. १९-२० ] ननु नागलोकगमनादयः सातवाहनप्रभृतीनां श्रूयन्ते । तदलोकसामान्यप्रभावातिशयवर्णने किमनौचित्यं सोव-भरक्षमाणां भूभुजामित्याशङ्कयाह-मानुषे. विति । न वयं ब्रूमो यत्प्रभावातिशयवर्णनं न समुचितं राज्ञाम् , किंतु केवलमनुष्याश्रयेण योत्पाद्यवस्तुकथा क्रियते तस्यां दिव्यादिकमौचित्यं न योजनीयस् । हिव्यासानुल्यादौ तु तद्योजनमविरुद्धमेव । यथा पाचवादिकथायाम् । सातवाहनाविस तु येशु पाक्दकवान श्रयते तानदेनोपनिबन्दव्यमित्यर्थः । अपक्षणामिति । सातिवन्यै कर्म । अधिकं स्विति । अयमर्थ:-यत्र विनेयानां प्रतीतिखण्डमा न जायते तादृग्वर्णनीयम् । सत्र केवलमाभुषस्यैकपदे सप्तावलममसंभाव्यमानतया कृतमिति हृदये स्फुरदुपदेश्यस्य चतुर्वर्गौपायस्याप्यलीकतां बुद्धौ निवेशयति । समादेस्तु चरितं तथाविधमपि पूर्वप्रसिद्धपरम्परोपचितसंप्रत्ययोपारूढं नासत्यतया चकास्ति । अत एव तस्यापि यदा प्रभावान्तरमुत्प्रेक्ष्यते तदा तादृशमेव न त्वसंभावनास्पदं वर्णनीयमिति । 1. I. बध्यमानम् 2. A. B. Oणनमनुचितं 3. N. पाण्डवकथायां 4. C. च नेया० 5. A. B. रूढमासत्यतया : T im. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy