________________
८७) अ. ३ सू. ३ ] काव्यानुशासनम् किन्तु रतिः संभोगशृङ्गाररूपोत्तमदेवताविषया न वर्णनीया। तद्वर्णनं हि पित्रोः संभोगवर्णनमिवात्यन्तमनुचितम् । यत्तु कुमारसंभवे हरगौरीसंभोगवर्णनं तत्कविशक्तितिरस्कृतत्वाद् भूम्ना न दोषत्वेन प्रतिभासते।
क्रोधोऽपि भ्रकुट्यादिविकारवर्जितः सद्यः फलदो निबन्द्धव्यः । यथा
क्रोधं प्रभो संहर संहरेति यावद्गिरः खे मरुतां चरन्ति । तावत् स वह्निर्भवनेत्रजन्मा भस्मावशेष मदनं चकार ॥२०० ।।
[कु. सं. स. ३. श्लो. ७२] स्वःपातालगमनसमुद्रलङ्घनादावुत्साहस्लु मानुषेभ्योऽन्येषु । मानुषेषु
दिव्यादिषु रतेः संभोगविप्रलम्भोभयरूपाया वर्णनीयत्वेन सामान्येनाभि- १० धाने उत्तमदेवताविषयत्वेनापि तथा प्रसक्तो विशेषमाह-किं त्विति । संभोग: परस्परावलोकनप्रणयकलहसंगीतकादिः। स चासौ शृङ्गारश्च, तद्रूपा।
अनुचितमिति । आस्वादयितृणां हि यत्र चमत्काराविघातस्तदेव रससर्वस्वम् , आस्वादायत्तत्वात् । उत्तमदेवतासंभोगपरामर्शे च पितृसंभोग इव लज्जातन्द्रादिना कश्चमत्कारावकाश इत्यर्थः ।।
शक्तितिरस्कृतत्वादिति । संभोगोऽपि ह्यसौ प्रतिभानवता कविना तथा वर्णितो यथा तत्रैव विश्रान्तं हृदयं पौर्वापर्यपरामर्श कर्तुं न ददाति । यथा निर्व्याजपराक्रमस्य पुरुषस्याविषयेऽपि युध्यमानस्य तावत्तस्मिअवसरे साधुवादो वितीर्यते, न तु पौर्वापर्यपरामर्शः । तथात्रापीति भावः । यदाह ध्वनिकारः
२० (56) अव्युत्पत्तिकृतो दोषः शक्त्या संवियते कवेः । • यस्त्वशक्तिकृतस्तस्य स झगित्यवभासते ॥ इति । ,
[ध्व. उ. ३. पृ. १३७ ] अन्येष्विति । दिव्यादिषु । तथा च केवलमनुष्यस्य राजादेवर्णने सप्तार्णवलडुनादिलक्षणा व्यापारा उपनिबध्यमाना वर्णनामहिना सौष्ठवमृतोऽपि नीरसा एव नियमेन भवन्ति ।
1. L. पातालगमन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org