________________
१७६
१०
S
काव्यानुशासनम् [ ८७) अ. ५. सू. ३
वीररौद्रशृङ्गारशान्तरसप्रधाना धीरोदात्तधीरोद्धतधीरललितधीरप्रशान्ता
उत्तमाधममध्यमा च ।
1
यस्याद्यापि सविभ्रमं फणिवधूवृन्दर्यशो गीयते ॥ २१० ॥ धीरोदात्तेति । धर्मयुद्धवीरप्रधानो धीरोदात्तः । धीरोद्धतादिषु त्रिष्वपि यथाक्रमं रौद्राङ्गारशान्तलक्षण नियतरसप्राधान्येऽपि अवश्यंभावित्वादुत्साहस्य वीररसप्राधान्यमपि प्रतिपत्तव्यम् । ततो वीररौद्रप्रधानो धीरोद्धतः । वीरशृङ्गार - धानो धीरललितः । दानधर्मवीरशान्तप्रधानो धीरप्रशान्त इति ।
ननु यद्युत्साहादिभाववर्णने कथञ्चिद्दिव्यमानुषाद्यौचित्यपरीक्षा क्रियते तत्कि - यताम् । रत्यादौ तु किं तया प्रयोजनम् । रतिर्हि भारतवर्षोचितेनैव व्यवहारेण दिव्यानामपि वर्णनीयेति स्थितिः । तथा चाहु:--
( 55 ) कस्माद्भारतमिष्टं वर्षेष्वन्येषु देशविहितेषु । या सर्वा भूमिः शुभगन्धा काञ्चनी यस्मात् ॥ उपवनगमनक्रीडाविहारनारीरतिप्रमोदाः स्युः ।
तेषु हि वर्षेषु सदा न तत्र दुःखं न वा शोकः ॥ इत्याशङ्कयाह -- मानुषोत्तमप्रकृतिवदिति । न वयं दिव्यमौचित्यं शृङ्गारविषयमन्यत् किञ्चिङ्क्रमः । किं तर्हि, भारतवर्षविषये यथोत्तमनायकेषु राजादिषु शृङ्गारोपनिबन्धस्तथा दिव्याश्रयोऽपि शोभते । न च राजादिषु प्रसिद्धग्राम्यसंभोगोपवर्णनं प्रसिद्धं नाटकादौ तथैव दिव्येषु तत्परिहर्तव्यम् | नाटक - देरभिनेयत्वादभिनयस्य संभोगशृङ्गारविषयस्यासभ्यत्वात् तत्र परिहार इति चेत् । २५. ननु यद्यभिनयस्यैवं विषयस्यासभ्यता तत्काव्यस्यैव विषयस्य सा केन वार्यते । तस्मादभिनेयार्थेऽनभिनेयार्थे च काव्ये यदुत्तमप्रकृते राजादेरुत्तमस्त्रीभिः सह प्राम्यसंभोगवर्णनं तदसभ्यं तथैव दिव्यादिविषयम् । न च संभोगस्य सुरतलक्षण एवैकः प्रकारो यावत् अन्येऽपि परस्परप्रेमदर्शनादयः प्रभेदाः संभवन्ति । त एव चोत्तमप्रकृतिविषये वर्णयितुमुचिताः । एवं हासादिष्वप्यौचित्यं योज्यमिति ।
1 A. B. omit धीरोदात्त
२९
तत्र रतिहास शोकाद्भुतानि मानुषोत्तमप्रकृतिवधिव्यादिष्वपि ।
दिव्य मर्त्यपातालीया यथा
आस्तीकोऽस्ति मुनिः स्म विस्मयकृतः पारीक्षितीयान्मखात् त्राता तक्षकलक्ष्मणः फणभृतां वंशस्य शक्रस्य च । उद्वेल्लन्मलयाद्विचन्दनलता स्वान्दोलनप्रक्रमे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org