SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ८७) अ. ३. सू. ३ ] काव्यानुशासनम् अकाण्डे छेदो यथा वत्सराजस्य रत्नावल्यां चतुर्थेऽङ्के रत्नावलीनामधेयमप्यगृह्णतो विजयवर्मवृत्तान्ताकर्णने । यथा वा वीरचरिते द्वितीयेऽङ्के राघव भार्गवयोर्द्वाराधिरूढे वीररसे 'कङ्कणमोचनाय गच्छामि' इति राघवस्योक्तौ । अङ्गस्याप्रधानस्यातिविस्तरेण वर्णनं यथा हयग्रीववधे हयग्रीवस्य । यथा वा विप्रलम्भशृङ्गारे नायकस्य कस्यचिद्वर्णयितुमनुकान्ते कवेर्यमकाद्यलङ्कारनिबन्धनरसिकतया महाप्रबन्धेन समुद्रादेः । तथा 1 Jain Education International हि हरिविजये - ईर्ष्याकुपितसत्यभामानुनयनप्रवृत्तस्य हरेः पारिजा तहरणव्यापारेणोपक्रान्तविप्रलम्भस्य वर्णनप्रस्तावे गलितकनिबन्धनरसिकतया कविना समुद्रवर्णनमन्तरा गडुस्थानीयं विस्तृतम् । तथा कादम्बर्या ' रूपविलास ' [ का . पृ. १३. नि. सा. ] इत्यादिना महाविप्रलम्भबीजेऽप्युपक्षिप्ते तदनुपयोगिनीष्वटवीशबरेशाश्रममुनिनगरीनृपादिवर्णनास्वतिप्रसङ्गाभिनिवेशः । तथा हर्षचरिते ' जयति ज्वलद् ' [ ह. च. लो. २१. पृ. ६. नि. सा.] इत्यादिना हर्षोत्कर्षवद्विजयवीजे बाणान्वयवर्णनम्, तत्रापि चानन्वितप्राय एवं सारस्वतोत्पत्तिपर्यन्तो १५ महान् ग्रन्थसन्दर्भः । शिशुपालवधादौ चादितः कृतप्रतिद्वन्द्विविजयबीजोपक्षेपावगाढव्याप्तिमद्वीररसानुबन्धेऽपि [ स. १ २] तदसङ्गतशृङ्गाराङ्गभूततत्तदृतू पवनविहारपुष्पावचायमज्जनादिवर्णनास्वत्यासक्तिः [ स. ३-११ ]। तदित्थमप्रस्तुतवस्तुविस्तृतिः प्रस्तुतरसप्रतीतिव्यवधानकारिण्यपि महाकविलक्ष्येषु भूयसा दृश्यत इति तत्त्वं त एव विदन्ति । अङ्गिनः प्रधानस्याननुसन्धानं यथा रत्नावल्यां चतुर्थेऽङ्के बाव्यागमनेन सागरिकाया विस्मृतिः । अनुसन्धिर्हि सर्वस्वं सहृदयतायाः, I. P. L. अनुनाथन 2. प्रतिबन्धि For Private & Personal Use Only १७१ 2 1 १० www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy