________________
काव्यानुशासनम् [८७) अ. ३ सू. ३ अत्र रतिपरिहारादीनामनुभावानां करुणादावपि संभवात्कामिनीरूपो विभावः क्लेशप्रतिपाद्यः। कर्पूरधूलिधवलद्युतिपूरधौत
दिइण्डले शिशिररोचिषि तस्य यूनः । लीलाशिरांशुकनिवेशविशेषक्तृप्ति
व्यक्तस्तनोन्नतिरभून्नयनावनौ सा ।। १९९ ॥
अत्रोद्दीपनालम्बनरूपाः शृङ्गारयोग्या विभावा अनुभावापर्यवसायिनः स्थिता इति क्लेशव्यक्तिः ।। १० पुनः पुनर्दीप्तिर्यथा कुमारसंभवे रतिप्रलापेषु [ स. ४] ।
उपभुक्तो हि रसः स्वसामग्रीलब्धपरिपोषः पुनः पुनः परामृश्यमानः परिम्लानकुसुमकल्पः कल्पत इति ।
अकाण्डे प्रथनं यथा वेणीसंहारे द्वितीयेऽङ्के दुर्योधनस्य धीरोद्वतप्रकृतेरपि तथाभूतभीष्मप्रमुखमहावीरलक्षक्षयकारिणि समरसंरम्भे प्रवृत्ते शृङ्गारवर्णने ।
अनुभावापर्यवसायिन इति । शृङ्गारी चेयुवा, संभवन्ति तथाविधा अनुभावाः । शान्तश्चेत् , न संभवन्ति । तं प्रति पस्पशरूपत्वात्तथाविधानां विभावानामिति शङ्गारित्वनिश्चयाभावे सत्स्वपि तथाविधेषु विभावेषु लीलादयो ऽनुभावाः क्लेशेन व्यज्यन्त इति ।
पुनः पुनः परामृश्यमान इति । तथा हि-विभावानुभावसामग्रीपरिघटितशरीरस्यापि रसयितरसनयोग्यस्य रसस्य पुनः पुनरान्दोलनं मालतीकुसुमप. रिमर्दनवदननुगुणमेव । धाराप्राप्ते हि रसे तदाविष्टानां तत्परवशानामुक्तिरल्पीयस्येव । तथा च तस्यां दशायां महाकवीनामेको द्वित्रा वा श्लोका निर्यान्ति ।
अत एव तापसवत्सराजे धाराप्राप्तः करुणरसः सर्वाल्पो द्वितीयोऽ: २५ कविना निबद्धः ।
I. I. क्लेशेन प्रतिपाद्यः 2. P. L. अकाण्डप्रथनम् 3. A. B. अनुभावाः पर्यवसायिन 4 N. प्रतिपन्नरूप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org