________________
८७) अ. ३ सू. ३] काव्यानुशासनम्
१९९ ८७) विभावानुभावक्लेशव्यक्तिपुनःपुनर्दीत्यकाण्डप्रथाच्छेदाङ्गातिविस्तराङ्गन्यननुसन्धानानगाभिधानप्रकृतिव्यत्ययाश्चा३।
एते चाष्टौ रसस्य दोषाः । तत्र विभावानुभावयोः क्लेशव्यक्तिर्यथापरिहरति रति मतिं लुनीते स्खलतितरां परिवर्तते च भूयः । ५ इति बत विषमा दशास्य देहं परिभवति प्रसभं किमत्र कुर्मः ॥१९८॥
एकेनाक्ष्णा प्रविततरुषा वीक्षते व्योमसंस्थं भानोबिम्ब सजललुलितेनापरेणात्मकान्तम् । अह्न छेदे दयितविरहाशङ्किनी चक्रवाकी द्वौ संकीर्णों रचयति रसौ नर्तकीव प्रगल्भा ॥ १९१ ॥
[ सुभाषितावली १३१६. चन्द्रकस्य ] इत्यादौ रतिशोकक्रोधानां समप्राधान्येनोपनिबन्धस्तत्र कथ न विरोधः ।
अत्रोच्यते-~-अत्राप्येक एव स्थायी । तथाहि-' एकत्तो रुअइ पिआ-' इत्यादौ स्थायिभूतोत्साहव्यभिचारिवितर्कलक्षणभावहेतुसन्देहकारणतया करुण- १५ संग्रामतूर्ययोरुपादानं वीरमेकं पुष्णातीति भटस्येत्यनेन पदेन प्रतिपादितम् । न च द्वयोः समप्रधानयोरन्योन्यमुपकार्योपकारकभावरहितयोरेकवाक्यभावो युज्यते । किं च--उपक्रान्ते सड्डामे सुभटानां कार्यान्तरकरणेन प्रस्तुतसंग्रामौदासीन्येन महदनौचित्यम् । अतो भर्तुः संग्रामैकरसिकतया शौर्यमेकं प्रकाशयन् प्रियतमाकरुणो वीरमेव पुष्णाति । एवं 'मात्सर्यम्' इत्यादावपि चिरप्रवत्तरतिवासनाया हेयतयोपादानाच्छमैकपरत्वं 'आर्याः समर्यादम्'-इत्यनेन प्रकाशितम् । ' इयं सा लोलाक्षी' इत्यादावपि रावणस्य प्रतिपक्षनायकतया निशाचरत्वेन मायाप्रधानतया च रौद्रव्यभिचारिविषादविभाववितर्कहेतुतया रतिकोधयोरुपादानं रौद्रपरमेव । 'अन्त्रैः कल्पितमङ्गलप्रतिसराः' इत्यादौ हास्यरसैकपरत्वम् । 'एक ध्याननिमीलनान्मुकुलितम्-' इत्यादौ तु शम्भोर्भावान्तरै- २५ रनाक्षिप्ततया शमस्तस्यापि योग्यन्तरशमाद्वैलक्षण्यप्रतिपादनेन शमैकपरतव 'समाधिसमये' इत्यनेन स्फुटीकृता । 'एकेनाक्ष्णा' इत्यादौ तु समस्तमपि पाक्यं भविष्यद्विप्रलम्भविषयमिति नः क्वचिदनेकतात्पर्यम् । तदेवमुक्तप्रकारेण रत्याद्युपनिबन्धे सर्वत्राविरोध इति । 1. C. एकतो.. 2. ° लक्षगवितर्क " ( दश लपकावलाक, G. P.) . २२ For Private & Personal Use Only
www.jainelibrary.org
२०
Jain Education International