________________
१६८
90
१५
२५
काव्यानुशासनम्
[ ८६) अ. ३. सू. २
राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी । गन्धवद् रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥१९७॥ [ र. वं. स. ११ श्लो. २० ] अत्र प्रकृतस्य करुणरसस्य विरुद्धः शृङ्गारो न पोषकः ।
न पोषक इति । अपि त्वङ्गितयैव प्रतिभासते । ननु तात्पर्यणेतरेषां विरुद्धानामविरुद्धानां च न्यग्भूतत्वेनोपादानं तत्र भवत्वङ्गत्वेना विरोधः । यत्र तु समप्रधानत्वेनानेकस्य भावस्योपनिबन्धनं तत्र कथम् । यथा— एकत्तो रुइ पिआ अण्णत्तो समरतूरनिग्घोसो ।
इत्यादौ रत्युत्साहयोः,
रतिशमयोः,
नेहेण रणरसेण य भडस्स दोलाइयं हिअअम् ॥ १८७ ॥
[
मात्सर्यमुत्सार्य
इत्यादौ रतिक्रोधयोः,
Jain Education International
6
इयं सा लोलाक्षी त्रिभुवनललामैकवसतिः
स चायं दुष्टात्मा स्वसुरप्रकृतं येन मम तत् । इतस्तीत्रः कामो गुरुरयमितः क्रोधदहनः
कृतो वेशश्चायं कथमिदमिति भ्राम्यति मनः ॥ १८८ ॥ [
इत्यादी रतिजुगुप्सयोः,
]
विचार्य कार्यम् - इत्यादौ
अन्त्रः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पलव्यक्तोत्तंसभृतः पिनह्य सरसा हृत्पुण्डरीकत्रजः । एताः शोणितपङ्ककुङ्कुमजुषः संभूय कान्तैः पिबन्त्यस्थिस्नेहसुरां कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥ १८९॥ [ मा. मा. अं. ५. लो. १८]
इत्यादौ शमरतिक्रोधानाम्,
एकं ध्याननिमीलनान्मुकुलितं चक्षुर्द्वितीयं पुनः पार्वत्या वदनाम्बुजस्तनतटे शृङ्गारभारालसम् । अन्यद्दरविकृष्टचापमदनक्रोधानलोद्दीपितं शम्भोर्भिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥ १९० ॥
[
1
For Private & Personal Use Only
}
www.jainelibrary.org