SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ८६) अ. ३ सू. २] काव्यानुशासनम् कामुक आचरति स्म तथा शराग्निरिति स्मर्यमाणशृङ्गारेणेदानी विध्वस्ततया शोकविभावतां प्रतिपद्यमानेन पोषितः करुणो रसः प्रधानमेव वाक्यार्थमभिधत्ते, यतः प्रकृतिरमणीयाः पदार्थाः शोचनीयतां प्राप्ताः प्रागवस्थामाविभिः स्मर्यमाणैर्विलासैरधिकतरं शोकावेगमुपजनयन्ति । यथा- अयं स रसनोत्कर्षी ' इति । इदं हि भूरिश्रवसः समरभुवि पतितं बाहुं दृष्ट्वा तत्कान्तानामनुशोचनम् । तथात्रापि त्रिपुरयुवतीनाम् । शाम्भवः शराग्निरा पराधः कामी यथा व्यवहरति स्म तथा व्यवहृतवानित्यनेनापि प्रकारेणास्त्येवाविरोधित्वम् । एवं च दन्तक्षतानि करजैश्च विपाटितानि प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे । - दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहैर्मुनिभिरम्यवलोकितानि ॥१९६॥ १० इत्यादावपि शृङ्गारः शान्तस्याङ्गम् । तथा हि-यथा कश्चिन्मनोरथशतप्रार्थितप्रेयसीसंभोगावसरे जातपुलकस्तथा त्वं परार्थसम्पादनाय १५ स्वशरीरदान इति शृङ्गारेण शान्त एव पोष्यत इति । यत्र तु न पोष्यते तत्रानङ्गत्वादोष एव । यथा दन्तक्षतानीति । बोधिसत्त्वस्य सिंहीं खकिशोरभक्षणप्रवृत्तां प्रति निजशरीरं वितीर्णवतः केनचिच्चाटुकं क्रियते । प्रोद्भतः सान्द्रः पुलकः परार्थसम्पत्तिजेनानन्दभरेण यत्र । रक्ते रुधिरे मनोभिलाषो यस्याः । अनुरक्तं च मनो २० यस्याः । मुनयश्चोबोधितमदनावेशाश्चेति विरोधः । जातस्मृहैरिति च वयमपि यदि कदाचिदेवं कारुणिकपदवीमधिरोक्ष्यामस्तदा सत्यतो मुनयो भविष्याम इति मनोराज्ययुक्तः । 1. I. adds पीनस्तनविमर्दनः 2. A. देवं - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy