________________
警发布
१५
२०
२५
काव्यानुशासनम्
[ ८६) अ. ३. सू. २
नत्र विधिस्तदैव तदेव कुरु माकार्षीरितिवदेकदा प्राधान्यलक्षणोsपि त्वन्याङ्गतालक्षणाऽनुवादः । एहीति क्रीडन्ति, गच्छेति क्रीडन्तीति क्रीडाङ्गयोरागमनगमनयोर्न विरोधः, न च रसेषु विध्यनुवादव्यवहारो नास्तीति शक्यं वक्तुम् । तेषां वाक्यार्थत्वेनाभ्युपगमात् । वाक्यार्थस्य च वाच्यस्य यो विध्यनुवादौ तौ तदाक्षिप्तानां रसानामपि भवतः । अथवा त्रिपुररिपुप्रभावातिशयस्य करुणोऽङ्गम्, तस्य तु शृङ्गारस्तथापि न करुणे विश्रान्तिरिति तस्याङ्गतैव । अथवा प्राग्यथा ग्रप्रेमस्खलितादिप्रमादयुक्तः । अत एवेर्ष्याको पनिमित्तता । वहेरपि प्रत्यग्रापराधता दाहजनिता तथा च शोकावेगहेतुता । - इति सदृशार्थवाचकपदनिकुरुम्बजनितरसद्वयप्रतीतिभूषितकाव्यार्थाभोगः सहृदयानां परं चमत्कारमावहतीति ।
उच्यत इति अयं भावः - सामग्रीविशेषपरिपतितत्वेन भावानां विरोधाविरोधौ न स्वभावमात्रनिबन्धनौ, मिन्नदेशयोः शीतोष्णयोरपि विरोधाभावात् । ननु प्रधानतया यद्वाच्यं तत्र विधिः, अप्रधाने तु वाच्येऽनुवादः, न च रसस्य वाच्यत्वं सह्यत इत्याशङ्कमानः परिहरति- न वेति । प्रधानाप्रधानत्वकृतौ विध्यनुवादौ तौ च व्यङ्गयतायामपि भवत एवेति भावः । मुख्यतया च रस एव काव्यवाक्यानामर्थः । तेन यत्रामुख्यतया सोऽर्थस्तत्रानूद्यमानत्वं रसस्यापि युक्तम् । यदि चानूद्यमानविभावादिसमाक्षिप्तत्वाद् रसस्यानूद्यमानता ।
1
तदाह-वाक्यार्थस्य चेति । अस्त्येवाविरोधित्वमिति (पृ.१६७ ) । अत्रायं भाव::- पूर्वे पक्षद्वये विप्रलम्भकरुणयोरन्यत्राङ्गभावगमनानिविरोधित्वमुक्तम् । अधुना तु स विप्रलम्भः करुणस्यैवाङ्गतां प्रतिपन्नो न विरोधीति । तथा हि-करग्रहणासहनादिना ईर्ष्याविप्रलम्भवृत्तान्तः स्मर्यमाण इदानीं विध्वस्ततया शोकविभावतां प्रकृष्टां प्रतिपद्यत इति वाक्यार्थीभूतस्य करुणस्य विरोधिनापि शृङ्गारेण परिपोष एव विधीयते । परतस्तु शृङ्गारपोषितेन करुणेनात्र मुख्य एवार्थ उपोद्बल्यते । उक्त हि
( 54 ) गुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते । प्रधानस्योपकारे हि तथा भूयसि वर्तते ॥ इति ॥
[
1. I. त्वन्योगता
Jain Education International
For Private & Personal Use Only
J
www.jainelibrary.org