________________
८६) अ. ३. सू. २] काव्यानुशासनम्
१६५ __ पराङ्गत्वेऽपि कथं विरोधिनोविरोधनिवृत्तिरिति चेत् ! उच्यते। विधौ विरुद्धसमावेशस्य दुष्टत्वं, नानुवादे । यथा
एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर । एवमाशाग्रहप्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः ॥ १९५॥
[सुभाषितावली. ३१६८ व्यासमुनेः] ५ नायिकान्तरसम्पर्कसमुत्थेाकोपनिमित्तो विप्रलम्भसंसूचकः । पटाञ्चलावलमस्थ वहेः प्रसभाभिहननं दाहनिमित्तदुःखजनितमवधूननं जलादिप्रक्षेपरूपं चेति करुणरसपरिपोषकम् । करावधूननेन करग्रहणासम्पत्तावञ्चलावलम्बिनो वल्लभस्य प्रसभममिहननमवताडनमसूयावशावज्ञानिमित्तं विप्रलम्भपरिपोषकम् । इतश्चेतश्च प्रवर्तमानस्य वह्नः कबरीकलापासङ्गिनस्त्रासहेतुकः ससंभ्रमकरयुगलजनितः प्रक्षेपोपासनममिव्यञ्जकमिह करुणस्य । पटाञ्चलावताडनपूर्वकत्वरितगतिनायिकावेणीलतावग्रहोपायहठचुम्बनप्रवृत्तवल्लभस्यापासनमपक्षेपणा मयि निर्लज्ज तथा नाम व्यलीकशतानि कृत्वा सम्प्रतीत्थमाचरसीत्येवरूपोपालम्भवचनादिमयं कृतककोपवशमीारोषामिव्याकम् । केशावलमस्य वह्नेः सेन्धनस्य प्रक्षेपे च संभ्रमवशेनानालोचितदेशतया पादपतनमवज्वालितस्य वा सर्वतोदिकस्य पादाक्रमणमिति तथाभूतस्य संभ्रमवशेनानिरीक्षणमनालोचनम् । वेलद्वेणीविलमनायकावलोकनजनितरोषावेगारुणितनयनस्फुरिताधरसंरब्धकान्तादर्शन निश्चितमानग्रहणः प्रणामान्तो मान इति वल्लभः पादपतितो न विगणितस्तदपराधामुखीकरणविस्मृततदपराधया नायिकया । वलयाक्रान्तपादतया पलायनासमर्थत्रिपुरनारीसमाश्लेषकारी वहिरतितीव्रतरावेगवशेन सर्वाङ्गप्रकम्पनेनावधूतः क्षिप्तो दुःसहदुःखावस्था- २० वद्योतकः । पादपतनप्रसादितवल्लभालिङ्गनप्रवृत्तः कान्तजनोऽसहनया दृढकोपनया झगिति प्रसादमव्रजन्त्या गर्वगरिममन्थरितयावधूतस्तदा मोटनेन निवारित इति संस्कारशेषाविप्रलम्भसंसूचनम् । अत एव परित्य कप्रायेाकोपतया वल्लभकृतापराधानुस्मरणजनिताश्रुबाधाविलीकृतकुवलयदलसदृशलोचनतया शङ्गारोदीपनम् । वह्निदाहजनितवल्लभसुतादिविनाशानुस्मरणहेतुकदुःखसंभारवशोद्गताश्रु- २५ प्रवाहविसंस्थुलीकृतसुन्दरतरनयनतया शोकावेगपोषणम् । आर्द्रापराधः प्रत्य
1. C. °स्यापोसन.. N, °स्यायासनमपक्षेपेण 2. A. B. तदुपरोधया 3. C. N. °दितवल्लभो वल्लभा०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org