________________
१६४
१०
१५
२०
२५
काव्यानुशासनम् [ ८६) अ. ३. सू. २
1
यितया प्रतीतिरिति मध्यपाठाभावेऽपि सुतरां वीरस्य व्यवधायकता । स्वदेहानित्यनेन चैकत्वाभिमानादाश्रयैक्यम् ।
1
अनङ्गत्वे- इति । द्वयोर्विरुद्वयोरङ्गित्वे दोष:, नाङ्गभावप्राप्तौ । सा हि नैसर्गिकी समारोपकृता वा । तत्र येषां नैसर्गिकी तेषां तावदुक्तावविरोध एव । यथा विप्रलम्भे तदङ्गानां व्याध्यादीनाम् । ते हि निरपेक्षभावतया सापेक्षभावविरोधिन्यपि करुणे सर्वथाङ्गत्वेन दृष्टाः । यथा-' भ्रमिमरतिमलसहृदयताम् ' इत्यादि । समारोपितायामप्यदोषो यथा 'कोपात्कोमललालबाहुलतिका' इत्यादि । अत्र बद्धा हन्यत इति च रौद्रानुभावानां रूपकबलादारोपितानां तद निर्वाहादेवाङ्गत्वम् । इयं चाङ्गभावप्राप्तिरन्या ।
दाधिकारिकत्वात्प्रधान एकस्मिन् काव्यार्थे रसयोर्भावयोर्वा परस्परविरोधिनोरङ्गभावस्तत्रापि न दोषः । यथा
- क्षिप्तो हस्तावलग्नः प्रसभमभिहतो व्याददानोंऽशुकान्तं गृह्णन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण । आलिङ्गन् योऽवधूतखिपुरयुवतिभिः सासनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराभिः । १९४ ।। [ अ. श. श्लो. २.
]
अत्र त्रिपुररिपुप्रभावातिशयवर्णने प्रकृते करुण इव शृङ्गारोऽप्यसमिति न तयोर्विरोधः ।
2
एकत्वाभिमानादिति । अन्यथा विभिन्नविषयत्वात्को विरोधः स्यादित्यर्थः । ननु वीर एवात्र रसो न गृङ्गारो न बीभत्सः किं तु रतिजुगुप्से वीरं प्रति व्यभिचारीभूते । भवत्वेवम् । तथापि प्रकृतोदाहरणता तावदुपपन्ना रतिजुगुप्सयोरपि हि न विरोधः ।
करुण इवेति । तथा हि- हस्तावलग्नस्य वह्नेः क्षेपो विधूननं भयहेतुमिति करुणाङ्गम् । उपलालनाप्रवृत्तस्य तु वल्लभस्य करग्रहणासहनं क्षेपो 2. I. तयोर्न विरोधः
1. I L ब्यवधायिकता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org