________________
१६२
१५
२५
काव्यानुशासमम्
[ ८६) अ. ३. सू. २
अत्र सकलपरिहारवनगमने शान्तानुभावौ । इन्धनाथानयनव्याजेनोपभोगार्थं वनगमनं चेन्न दोषः ।
M
1
अबाध्यत्वे - - इति । अबाध्यत्वमशक्याभिभवत्वम् । तदभावे न केवलं न दोषो यावत्प्रकृतस्य रसस्य परिपोषः । यथा - ' काकार्यं शशलक्ष्मण:' इत्यादि । अत्र वितकौत्सुक्ये मतिस्मरणे शङ्कादैन्ये धृतिचिन्तने परस्परबाध्यबाधकभावेन भवन्ती चिन्तायामेव पर्यवस्यन्ती परमास्वादस्थानम् ।
सत्यं मनोरमाः कामाः सत्यं रम्या विभूतयः ।
किन्तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ॥ १८८ ॥ [ सुभाषितावली. श्लो. ३२६६ ] अत्रत्वाद्य बाध्यत्वेनैवोक्तम् । द्वितीयं तु प्रसिद्धास्थिरत्वापाङ्गभङ्गोपमानेन जीवितस्यास्थिरत्वं प्रतिपादयद् बाधकत्वेनोपात्तं शान्तमेव पुष्णाति न पुनः शृङ्गारस्यात्र प्रतीतिः, तदङ्गस्याप्रतिपत्तेः । ध्वनिकारस्तु
ang
(14) विनेयानुन्मुखीकर्तुं काव्यशोभार्थमेव वा । तद्विरुद्धरसस्पर्शस्तदङ्गानां न दुष्यति ॥
Jain Education International
[ ध्वन्या० उ. ३. कारिका ३० ]
इति विरोधपरिहारमाह ।
आश्रयैक्ये - इति । एकाश्रयत्वे दोषो भिन्नाश्रयत्वे तु वीरभयानकयोः परस्परविरुद्धयोरपि नायकप्रतिनायकगतत्वेन निवेशितयोर्न दोषः । यथा - अर्जुनचरिते
समुत्थिते धनुर्ध्वनौ भयावहे किरीटिनः महानुपप्लवोऽभवत् पुरे पुरन्दरद्विषाम् । श्रवेण तस्य तु ध्वनैर्विलुप्तमूलबन्धनं
अशेषदत्ययोषितां बभूव जीवितम् ॥ १८९ ॥
इत्यादि ।
[ अ. च.
1. I. adds क च कुलम्
For Private & Personal Use Only
]
www.jainelibrary.org