________________
८६) अ. ३. सू.२] काव्यानुशासनम्
१६१ ___अत्रौत्सुक्यशब्द इव तदनुभावो न तथा प्रतीतिकृत् । अत एव 'दूरादुत्सुकम्' इत्यादौ वीडायनुभावानां विवलितत्वादीनामिवौत्सुकत्वानुभावस्य सहसा प्रसरणादिरूपस्य तथा प्रतिपत्तिकारित्वाभावादुत्सुक. मिति कृतम् ।
८६) अबाध्यत्वे आश्रयैक्ये नैरन्तर्येऽनङ्गत्वे च विभावादिपातिकूल्यम् ॥२॥
अबाध्यत्वादिषु सत्सु विभावादिप्रातिकूल्यं रसादेर्दोषः । यथाप्रसादे वर्तस्व प्रकटय मुदं संत्यज रुषं
प्रिये शुष्यन्त्यङ्गान्यमृतमिव ते सिञ्चतु वचः । निधानं सौख्यानां क्षणभिमुखं स्थापय मुखं
१० न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः ॥ १८६ ॥
[१६२९ सुभाषितावली. चन्द्रकस्य ] अत्र कालहरिणश्चपलः शीघ्रमेव प्रयाति न च पुनरागच्छतीत्यादिवैराग्यकथाभिः प्रियानुनयनं निर्विण्णस्येव कस्यचिदिति शृङ्गारप्रतिकू-". लस्य शान्तस्यानित्यताप्रकाशनरूपो विभावो निबद्ध इति विभावप्रा- १५ तिकूल्यम् , तत्प्रकाशितो निर्वेदश्च स्वदत इति व्यभिचारिपातिकूल्योदाहरणमप्येतत् । __एवं शृङ्गारबीभत्सयोर्वीरभयानकोः शान्तरौद्रयोरप्युदाहार्यम् । यथा च
निहुयरमणम्मि लोअणपहम्मि पडिए गुरूण मज्झम्मि ! सयलपरिहारहिअया वणगमणं चेव महइ बहू ॥ १८७ ॥
.. ] 1. I. प्रातिकोलयम् 2. I. L. वर्तयख 3. I. में । 4. P. कालो हरिणचपलः 5. I, प्रातिकौलयम, 6. I. P. लोयणवह म्मि 7. P. L. चेभ, N. वेर।
[
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org