________________
१६०
काव्यानुशासनम् [८५) अ. ३. सू. १ संग्रहारे प्रहरणैः प्रहाराणां परस्परं । छणत्कारैः श्रुतिगतैरुत्साहस्तस्य कोऽप्यभूत् ॥ १८३ ॥
अत्रोत्साहस्य स्थायिनः ।
यत्रापि स्वशब्देन निवेदितत्वमस्ति तत्रापि विशिष्टविभावादिप्रतिपादनमुखेनैव रसादीनां प्रतीतिः, स्वशब्देन सा केवलमनूयते । यथा 'याते द्वारवतीम् ' इत्यादि । अत्र विभावानुभावबलादुत्कण्ठा प्रतीयत एव । सोत्कण्ठ-शब्दः केवलं सिद्धं साधयति । उत्कमित्यनेन तूकानुभावाकषर्ण कर्तुं सोत्कण्ठशब्दः प्रयुक्त इत्यनुवादोऽपि नानर्थकः । व्यभिचारिणां यथासव्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे
सत्रासा भुजगे सविस्मयरसा चन्द्रेऽमृतस्यन्दिनि । सेा जमुसुतावलोकनविधौ दीना कपालोदरे पार्वत्या नवसङ्गमप्रणयिनी दृष्टिः शिवायास्तु वः ॥१८४॥
[सुभाषितावली ७८ ] १५ अत्र व्रीडादीनाम् । क्वचित्सञ्चारिवर्जमिति वचनात्क्वचिन्न दोषो यथा
औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना हिया तैस्तैबन्धुवधूजनस्य वचनैर्नीताभिमुख्यं पुनः । दृष्टाने वरमात्तसाध्वसरसा गौरी नवे सङ्गमे संरोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु वः ॥१८५॥
[र. अं. १ श्लो. २ ] नानर्थक इति । शब्दोपात्तस्यैव धनुवादो भवति न प्रतीयमानस्येत्यर्थः ।
1. I. P. छणकार 2. I. 'त्साहस्य 3. I सुताविलोकन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org