________________
८५) अ. ३. सू. १] काव्यानुशासनम्
तृतीयोऽध्यायः अदोषौ शब्दार्थो काव्यमित्युक्तम् । तत्र दोषाणां रसापकर्षहेतुत्वं सामान्यलक्षणमुक्तम् । विशेषलक्षणमाह
८५) रसादेः स्वशब्दोक्तिः क्वचित्सञ्चारिवजे दोषः॥१॥
रसस्थायिव्यभिचारिणां स्वशब्देन वाच्यत्वं दोषः । सञ्चारिणस्तु ५ क्वचित्स्वशब्दाभिधानेऽपि न दोषः । तत्र रसस्य स्वशब्देन शृङ्गारा- . दिना चाभिधानं यथा
शृङ्गारी गिरिजानने सकरुणो रत्यां प्रवीरः स्मरे बीभत्सोऽस्थिभिरुत्फणी च भयकृन्मूाद्भुतस्तुङ्गया रौद्रो दक्षविमर्दने च हसकृन्नग्नः प्रशान्तश्चिरादित्थं सर्वरसात्मकः पशुपतिर्भूयात्सतां भूतये ॥१८२॥
[ शृङ्गारतिलक. प. १. श्लो. १] स्थायिभावानां यथा---
पाच्यत्वमिति । वाच्चत्वं हि रसादीनां स्वशब्दनिवेदितत्वेन वा स्याद्विभावादिप्रतिपादनमुखेन वा । पूर्वस्मिन् पक्षे स्वशब्दनिवेदितत्वाभावे रसादी- १५ नामप्रतीतिप्रसङ्गः । न च सर्वत्रतेषां स्वशब्दनिवेद्यत्वं यथा-'यद्विश्रम्य'-इति । अत्रानुभावविभावबोधानन्तरमेव तन्मयीभवनयुक्त्या तद्विभावानुभावोचितचित्तवृत्तिवासनारञ्जितस्वसंविदानन्दचर्वणागोचरोऽर्थात्माऽभिलाषचित्तौत्सुक्यनिद्राधृतिग्लान्यालस्यश्रमस्मतिवितर्कादिशब्दाभावेऽपि स्फुरत्येव । न च केवलशङ्गारादिशब्दमात्रभाजि विभावादिप्रतिपादनरहिते काव्ये मनागपि रसवत्त्वप्रतीतिरस्ति । यथा-'शङ्गारहास्यकरुणा ---इत्यादौ । तस्मादन्वयव्यतिरेकाभ्यामभिधेयसाम
ाक्षिप्तत्वमेव रसादीनाम् । न त्वभिधेयत्वं कथश्चिदिति स्वशब्दोक्तिदोष इत्यर्थः । द्वितीयश्च पक्षोऽस्माकमप्यभिमत एव । एतेन(53) रसवदर्शितस्पष्टगृङ्गारादिरसोदयम् ।
स्वशब्दस्थायिसंचारिविभावाभिनयास्पदम् ॥ [ का, लं. सं. वर्ग ४. का. ३; भामह का. लं. प. ३. श्लो. ६. a.]
इत्येतद्वथाख्यानावसरे यद् भट्टोद्भटेन 'पञ्चरूपा रसाः' इत्युपक्रम्य तत्र 'स्वशन्दाः शृङ्गारादेर्वाचकाः शृङ्गारादयः शब्दा ' इत्युक्तम् , तत्प्रतिक्षिप्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org