________________
१५८
काव्यानुशासनम् [ ८४) भ. २ स. ५९ नीचाः सदैव सविलासमलोकलग्ना
ये कालतां कुटिलतामिव न त्यजन्ति ॥१८१॥
यद्यपि सर्वत्र काव्येऽन्ततो विभावादिरूपतया रसपर्यवसानम् , तथापि स्फुटस्य रसस्यानुपलम्भादव्यङ्ग्यमेतत्काव्यमुक्तम् ।
इत्याचार्यश्रीहेमचन्द्रविरचितायामलङ्कारचूडामणिसंज्ञस्वोपक्षकाव्यानुशासनवृत्तौ रसभावतदाभासकाव्यभेदप्रतिपादनो द्वितीयोऽध्यायः ॥
-
१०
ननु यत्र रसादीनामविषयः स काव्यप्रकारोऽपि न भवत्येव । यस्मादवस्तुसंस्पर्शिता काव्यस्य तावन्नोपपद्यते । वस्तु च सर्वमेव जगद्गतमवश्य कस्यचिद्रसस्य भावस्य वाजत्वं प्रतिपद्यते । अन्ततो विभावत्वेन चित्तवृत्तिविशेषा हि रसादयः । न च तदस्ति वस्तु यन्न कञ्चित् चित्तवृत्तिविशेषमुपजनयति । तदनुत्पादने वा कविविषयतैव तस्य न स्यादित्याशङ्कयाह-यधपोति ॥
इति । आचार्यश्रीहेमचन्द्रविरचिते विवेके द्वितीयोऽध्यायः ।
1. I. omits श्री.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org