SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १५४ काव्यानुशासनम् [८३) अ. २ सू. ५७ यथा च-- जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया वचो वैदेहीति प्रतिदिशमुदश्रु प्रलपितम् । कृता लंकाभर्विदनपरिपाटीषु घटना मयाप्तं रामत्वं कुशलवसुता नत्वधिगता ॥१७३॥ [सुभाषितावली. ३२६४ ] अत्र व्यङ्गय उपमानोपमेयभावो रामत्वमिति वाच्यस्याङ्गतां नीतः। यथा वा--- भ्रमिमरतिमलसहृदयतां प्रलयं मूच्छा तमः शरीरसादम् । मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ॥१७॥ इत्यं पृथ्वीपरिवृढ भवद्विद्विषोऽरण्यवृत्तः कन्या कश्चित्फलकिसलयान्याददानामिधत्ते ॥ १८४ ॥ २० अत्र शङ्कासूयाधुतिस्मृतिश्रमदेन्यविवोधौत्सुक्यानां शवलता । एते च रसवदाद्यलङ्काराः । यद्यपि भावोदयसंधिशबलत्वानि नालङ्कारतयोक्तानि तथापि कधिहयादित्येवमुक्तम् । इदानी वाच्यं प्रत्यलङ्कारस्य व्यङ्गयस्याङ्गतामाह यथा चेति। जनस्थाने इति । जनानां स्थानम् , दण्डकारण्यं च।, कनकमगतृष्णा, भ्रान्तिश्च । वैदेही सीता, वै देहि इति पदद्वयं च । लङ्काभर्तुः रावणस्य, अलमीषदूपत्वात्कुत्सितस्य भर्तुश्च । वदनेषु दशसु । इषुघटना शरयोजना, विचित्रोक्तिपरम्परासु च । कुशलवौ सुतौ यस्याः सा सीता, शुभधनता च । प्रलयेति । प्रलय इन्द्रियाणामस्पं सामर्थ्यम् । मूर्छा मनस इन्द्रियाणां च शक्तिनिरोधः । तमः-सत्येव तमसि इन्द्रियाणामशक्तिः । मरणमिति । प्राणत्यागकर्ततात्मिका पूर्व क्रियैव च पाशवन्धाद्यवसरगता मरणशब्देनात्र विवक्षिता । विषमिति जलं कालकूटं च । 1. I. L. प्रतिपदमु० 2. C. सत्येव मनसि; A. B. सत्येव मतसि. Obviously the correct reading is सत्येव तमसि. म and त have interchanged their places. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy