SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ८३) अ. २ सू. ५७ ] काव्यानुशासनम् अत्र शृङ्गारः करुणस्याङ्गम् । शृङ्गार इति । समरभुवि पतितकरावलोकनेन प्राक्तन संभोगवृत्तान्तः स्मर्यमाण इदानीं विध्वस्ततया यतः शोकविभावतां प्रतिपद्यते, अतः करुणस्याव्रतां याति । यथा च--- 1 तव शतपत्रपत्र मृदुताम्रतलश्चरणश्चलकलंसनूपुर कलध्वनिना मुखरः । महिषमहासुरस्य शिरसि प्रसभं निहितः कनक महामहीघ्रगुरुतां कथमम्ब गतः । १७९ ] [ अत्र वितर्कविस्मयादयो भावा देवताविषयाया रतेरङ्गम् । यथा च--- समस्तगुणसंपदः सममलङ्कियाणां गणे भवन्ति यदि भूषणं तव तथापि नो शोभसे । शिवं हृदयवल्लभं यदि यथा तथा रञ्जये तदेव ननु वाणि ते जगति सर्वलोकोत्तरम् ॥ १८० ॥ अत्र शृङ्गाराभासो भावस्याङ्गम् । यथा चअविरलकरवालकम्पनैर्भ्रकुटीतर्जन गर्जनैर्मुहुः । ददृशे तव वैरिणां मदः स गतः क्वापि तवेक्षणे क्षणात् ॥ १८१ ॥ [ ] अत्र राजविषयस्य रतिभावस्य भावप्रशमोऽङ्गम् । साकं कुरङ्गकदृशा मधुपानलीलां कर्तुं सुहृद्भिरपि वैरिणि ते प्रवृत्ते । अन्याभिधायि तव नाम विभो गृहीतं केनापि तत्र विषमामकरोदवस्थाम् ॥ १८२ ॥ [ अत्र त्रासस्योदयः । असोढा तत्कालोल्लसदसहभावस्य तपसः कथानां विस्रम्भेष्वथ च रसिकः शैलदुहितुः । प्रमोदं वो दिश्यात्कपटबटुवेषापनयने त्वराशैथिल्याभ्यां युगपदभियुक्तः स्मरहरः ॥ १८३ ॥ [ अत्रावेगधैर्ययोः संधि: । पश्येत्कश्चिञ्चल चपल रे का त्वराहं कुमारी हस्तालम्ब वितर हहहा व्युत्क्रमः क्वासि यासि । 1. A drops one पत्र १५३ Jain Education International For Private & Personal Use Only ] ] १० १५ २० २५ ३० www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy