________________
1
काव्यानुशासनम् [८३) अ. २ सू. ९७ ८३) असत्संदिग्धतुल्यमाधान्ये मध्यमं त्रेधा ॥१७॥ .
असति संदिग्धे तुल्ये च प्राधान्ये व्यङ्गयस्य मध्यमं काव्यम्। तत्रासत्प्राधान्यं क्वचिद्वाच्यादनुत्कर्षेण यथा
वाणीरकुडंगुड्डीणसउणिकोलाहलं सुणतीए । घरकम्मवावडाए वहूए सीयंति अंगाइं ॥१७१॥
[स. श. ८७४ ] अत्र — दत्तसंकेतः कश्चिल्लतागहनं प्रविष्टः' इति व्यङ्ग्यात्सीदन्त्यङ्गानि' इति वाच्यमेव सातिशयम् । क्वचित्पराङ्गत्वेन यथा
अयं स रसनोत्कर्वी पीनस्तनविमर्दनः नाभ्यूरुजघनस्पर्शी नीवीविधंसनः करः ॥१७२॥
[म. भ. स्त्री. प. अ. २४ श्लो. १९] अत्र हि नायिकाकारानुवय॑मानस्वात्मप्रतिकृतिपवित्रितचित्रफलहकालोकनाद् वत्स
राजस्य परस्परास्थाबन्धरूपो रतिस्थायिभावो विभावानुभावसंयोजनावशेन चर्वणा१५ मारूढ इति प्राधान्येनात्र रसो व्यायः । एवं भावतदाभासादीनामुत्तमकाव्य
प्रभेदस्तयोदाहरणानि ज्ञेयानीति । ___ सातिशयमिति । तथा हि । गृहकर्मव्यापृताया इत्यन्यपराया अपि । वघ्या इति सातिशयलज्जा पारतन्त्र्यबद्धाया अपि । अज्ञानीत्येकमपि न तादृशमहं यद्राम्भीर्यावहित्थवशेन संवरीतुं पारितम् । सीदन्तीत्यास्तां गृहकर्मसंपादन स्वात्मानमपि ध न प्रभवन्ति । गृहकर्मयोगे च स्फुटं लक्ष्यमाणानीति अस्माद्वाच्यादेव सातिशयमदनपरवशताप्रतीतिरित्यर्थः ।
पराङ्गत्वेनेति । परस्य रसभावतदाभासभावप्रशमभावोदयभावसंधिभावशबलतारूपस्य वाच्चस्य वाक्याथीभूतस्य अङ्गं रसादिवस्त्वलकाररूपं वाव्यङ्गयं तस्य भावस्तत्त्वम् । तेनेति रसेन ।
रसनोत्कर्षीति । रसनां मेखलां संभोगावसरे अर्ध्व कर्षतीति । 1. I. वाक्यात् 2. C. चर्वणा इति मारूढ इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org