SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ८२) अ. २ सू. ५६ ] 1 अत्र दन्ताङ्कितपदेन तदव जयस्तत्कक्षपरिग्रहस्तथैव चतुरर्णवभ्रमणं पुनः कृपामात्रेण त्यागस्तत्राप्रतीकारः पुनरप्यभिमानदर्प इत्यादि व्यज्यते । दन्ताङ्कितपदेनेति । वस्तुस्वभावेन । अभिमानदर्प इत्यादीति । वस्त्वित्यर्थः । एवमङ्कारे रसादौ च प्राधान्येन व्यङ्गये काव्यस्योत्तमत्वं विज्ञेयम् । तद्यथा काव्यानुशासनम् लावण्यकान्तिपरिपूरितदिडुखेऽस्मिन् स्मेरेऽधुना तव मुखे तरलायताक्षि । क्षोभं यदेति न मनागपि तेन मन्ये सुव्यक्तमेव जलराशिरयं पयोधिः ॥ १७७ ॥ 2 [ सुभाषितावली. २०३१ जयवर्धनस्य ] अत्र रूपकालङ्कारो व्यङ्गयः । तथा हि । लावण्यं संस्थानमुग्धिमा, कान्तिः प्रभा, ताभ्यां परिपूरितानि संविभक्तानि हृद्यानि संपादितानि दिनुखानि येन । अधुना कोपकषायकालुष्यादनन्तरं प्रसादौन्मुख्येन स्मेरे ईषद्विहसनशीले तरलायते प्रसादान्दोलनविकाससुन्दरे अक्षिणी यस्यास्तस्या आमन्त्रणम् । अथ चाधुना कोपादनन्तरं प्रसादोदये न एति, वृत्ते तु क्षणान्तरे क्षोभमगमत् । कोपकषायपाटलस्मेरं च तव मुखं संध्यारुणपूर्णशशंधरमण्डलमेवेति भाव्यम्, क्षोभेण चलितचित्तवृत्तितया सहृदयस्य न चैति तत्सुव्यक्तमन्वर्थतयायं जलराशिर्जाड्यसंचयः । जलादयः शब्दा भावार्थप्रधाना इत्युक्तं प्राक् । अत्र क्षोभो मदनविकारात्मा सहृदयस्य त्वन्मुखावलोकने भवतीति इयतामिधाया विश्रान्तत्वाद्वपकं व्यङ्गयमेव । तदाश्रयेण च काव्यस्य चारुत्वं व्यवतिष्ठत इति तस्यैव प्राधान्यम् । रसप्राधान्ये यथा- कृच्छ्रेणोरुयुगं व्यतीत्य सुचिरं भ्रान्ता नितम्बस्थले मध्येऽस्यास्त्रिवलीतरङ्गविषमे निस्पन्दतामागता । मद्दृष्टिस्तृषितेव संप्रति शनैरास्य तुङ्गौ स्तनौ साकाङ्क्ष मुहुरीक्षते जललवप्रस्यन्दिनी लोचने ॥ १७८ ॥ 1 P. कक्षा Jain Education International 2 A. B. ० भगमनं [ र. अं. २ श्लो. ३० ] 3 A. B. ° मिधायां १५१ For Private & Personal Use Only १० १५ २५ www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy