________________
८०) अ. २ स. ५४ ] काव्यानुशासनम्
१४७ ___ बाह्यास्तु स्तम्भादयः शरीरधर्मा अनुभावाः । ते चान्तरालिकान्सात्त्विकान्भावान्गमयन्तः परमार्थतो रतिनिर्वेदादिगमका इति स्थितम् । एवं च नवस्थायिनस्त्रयस्त्रिंशद्व्यभिचारिणोऽष्टौ सात्त्विका इति पञ्चाशद्भावाः । रसभावानभिधाय तदाभासानाह -
८०) निरिन्द्रियेषु तिर्यगादिषु चारोपाद्रसभावाभासौ।५४॥ ५ निरिन्द्रिययोः संभोगारोपणात्संभोगाभासो यथापर्याप्तपुष्पस्तबकस्तनीभ्यः स्फुरत्प्रवालौष्ठमनोहराभ्यः । लतावधूभ्यस्तरवोऽप्यवापुर्विनम्रशाखाभुजबन्धनानि ॥ १५७ ॥
एते च सात्त्विकाः प्रतिरसं संभवन्तीति राजानुगतविवाहप्रवृत्तभृत्यन्याये- १० नापि व्यभिचारिवन्न स्वातन्त्र्यगन्धमपि भजन्त इति सुलभोदाहरणत्वाच्च वृत्तौ -उदाहरणानि न प्रदर्शितानि ॥
रसाभास इति । परस्परास्थाबन्धात्मिकाया हि रतेः शृङ्गारत्वमुक्तम् । अत्र तु कामनामिलाषमात्ररूपा रतिय॑मिचारिभावो न स्थायी । तस्य तु स्थायिकल्पत्वेनाभाति । अतश्च स्थाय्याभासत्वं रतेः । यतो रावणस्य सीता द्विष्टा मय्युपेक्षिका चेति हृदयं नैव स्पृशति । तत्स्पर्शे ह्यमिमानोऽस्य लीयेतेव, मयीयं रक्तति तु निश्चयोऽप्यनुपयोगी कामजमोहसारत्वात् , शुक्तौ रूप्याभासवत् । तस्माद्विभावाद्याभासाद्रत्याभासे प्रतीते चर्वणाभाससारः शृङ्गाराभास इति । एवं हास्याभासो यथा
लोकोत्तराणि चरितानि न लोक एष संमन्यते यदि किमङ्ग पदाम नाम । यत्त्वत्तु हासमुखरत्वममुष्य तेन पाश्र्वोपपीडमिह को न विजाहसीति ॥ १७६ ॥
- अत्र यदमिनन्दनीयेऽपि वस्तुनि लोकस्य हासमुखरत्वं स हास्याभासः । २५ किंशब्दवाच्चस्य तु हास्यत्वमेव । एवं रसान्तरेषूदाहार्यमिति ।
1. C. किंशब्दस्य वाचस्य तु एवं रसान्तरे० 2. A. हास्य एष
Jain Education International
For Private & Personal Use Only.
www.jainelibrary.org