________________
१४६
१०
काव्यानुशासनम् [७९) अ. २. सू. ५१ स्वेदो वैवयं च । तद्धेतुत्वाच्च तथा व्यवहारः । आकाशानुग्रहे गतचेतनत्वं प्रलयः । वायुस्वातन्त्र्ये तु तस्य मन्दमध्योत्कृष्टावेशात्रेधा रोमाश्ववेपथुस्वरभेदभावेन स्थितिरिति भरतविदः ।
आश्लेषे प्रथम क्रमादथ जिते हृद्येऽधरस्यार्पणे केलियतविधौ पणं प्रियतमो कान्तां पुनः पृच्छति । सान्तसिनिरुद्धसंभृतरसोद्भेदस्फुरगण्डया
तूष्णीं शारविशारणाय निहितः स्वेदाम्बुगर्भः करः ॥ १७२ ॥ . अतीव्रत्वेन तु वैवयं यथा
संचारिणी दीपशिखेव रात्री ये यं व्यतीयाय पतिंवरा सा । नरेन्द्रमार्गाढ इव प्रपेदे विवर्णभावं स स भूमिपालः ॥ १७३ ॥
[र. वं. स. ६, श्लो. ६.] प्रलय इति प्रकर्षण प्राणनिलीनेविन्द्रियेषु लयः प्रलयः । यथा--- 'तीव्राभिषङ्गप्रभवेण-' इति ।
तस्येति । प्राणस्य । मन्देति । प्राणस्य मन्दावेशाद्रोमाश्चो यथा
तद्वक्त्रामिमुखं मुखं विनमितं दृष्टिः कृता पादयोः तस्यालापकुतूहलाकुलतरे श्रोत्रे निरुद्ध मया । पाणिभ्यां च तिरस्कृतः सपुलकः स्वेदोद्गमो गण्डयोः सख्यः किं करवाणि यान्ति शतधा यत्कञ्चुके संधयः ॥१७॥
[अ. श. श्लो. ११] मध्यावेशावेपथुर्यथा
मा गर्वमुद्वह कपोलतले चकास्ति । कान्तस्वहस्तलिखिता मम मञ्जरीति । अन्यापि किं सखि न भाजनमीदृशानां वैरी न चेद्भवति वेपथुरन्तरायः ॥ १७५ ॥
___ २५
उत्कृष्टावेशात्स्वरभेदो यथा-'याते द्वारमतीम्-' इति ॥ 1. A. साकारविसारणाय B. कारविसारणाय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org