________________
१४५
७९) अ. २ सू. ५३ ] काव्यानुशासनम् लक्षणा विभावेन रत्यादिगतेनैवातिचर्वणागोचरेणाहृता अनुभावैश्च गम्यमाना भावा भवन्ति । तथा हि पृथ्वीभागप्रधाने प्राणे संक्रान्तश्चित्तवृत्तिगणः स्तम्भो विष्टब्धचेतनत्वम् । जलभागप्रधाने तु बाष्पः । तेजसस्तु प्राणनैकटयादुभयथा तीव्रातीव्रत्वेन प्राणानुग्रह इति द्विधा ___ प्रियमुखदर्शनेन रतिविषये सादरं सत्प्रियाहृदयं चलितं गुरुविषये मा संक्रमीदिति । निरुद्धस्वेदप्रभृति बाह्यप्रसरमपि न विश्राम्यति । आन्तरस्वेदादि सात्त्विकक्षोभमयमेवेत्यर्थः । निदर्शनं चात्र प्रतीयमानम् । तथा हि-प्रियं मुखं यस्य तादृशस्य शशाङ्कस्य दर्शने आहृदयमपि चलितो रयी वेगवान्सागरो गुरुणा सेतुना रुद्धाः सेकप्रारम्भकाः प्रसरा यस्य तादृशोऽपि खल्वित्याश्चर्य न तिष्ठति न निस्तरङ्गीभवति । सागरशब्द उभयलिङ्गः । प्राकृते वा लिङ्गविपर्यासः । तदत्र रतिर्मनोरूपत्वाच्च्युता बाह्यभौतिकविकारपर्यवसायिनी च न जातेति प्राणभूमावेव विश्रान्ता वर्णिता ।। ___ रत्यादिगतेनैवेति । न तु विभावान्तरेण, तेषां बाह्यविषयविशेषाभिमुख्यनिरपेक्षत्वादित्यर्थः । ग्लान्यालस्यश्रममूर्छादीनां तु यद्यप्यालम्बनविषयशून्यता, तथापि बाह्यहेतुकाः सन्तो व्यभिचारिषु गणिताः । अबाह्यहेतुकास्तु स्तम्भादय १५ इति सात्त्विकाः ।
स्तम्भो विष्टब्धचेतनत्वमिति । मनसा हर्षादिपरवशेनानिन्द्रियप्रदेशचारिणा विकल्पपर्यन्ततागमनरहिताविकल्पकबहिर्वृत्तिमात्रनिष्ठानामिन्द्रियाणामनधिष्टानादित्यर्थः । यथा
ते ताण हयच्छायं णिच्चललोअणसिहं पउत्थपया । आलिक्खपईवाण व णिययं पयइचडुलत्तणं पि विअलिअम् ॥ १७० ॥
[वि. बा. ली. एवं बाष्पहेतुत्वाबाप्पो यथा
उत्पक्ष्मणोनयनयोरुपरुद्भवृत्ति
बाष्पं कुरु स्थिरतया विहितानुबन्धम् । अस्मिन्नलक्षितनतोन्नतभूमिभागे । ___मार्गे पदानि खलु ते विषमीभवन्ति ॥ १७१ ॥
. [अ. शा. अं. ४ श्लो. १४ ] तीव्रातीव्रत्वेनेति । तीवत्वेन प्राणानुग्रहस्वेदो यथा1. C. बाह्या 2. C. का अतो 3. C. य॑न्तागमन
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org