SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ७८) अ. २. सू. ५२ ] काव्यानुशासनम् यानि त्रीणि कुतोमुखान्यपि पदान्यासन खरायोधने यद्वा कौशलमिन्द्रसूनुनिधने तत्राप्यभिज्ञो जनः ॥ १५४ ॥ [ उ. रा. च. अं. ५ श्लो. ३५ ] ७८) व्याध्यभिघाताभ्यां मृतिर्हिकार्यादिकृत् ॥ ५२ ॥ व्याधेर्जरादिः प्रतीतः, सर्पविषशस्त्रगजा दिसंभवोऽभिघातस्ताभ्यां मृतेः प्रागवस्था मृतिः । साक्षान्मृतावनुभावाभावात् । तत्र व्याधिजां मृतिं हिका श्वासाङ्गभङ्गाक्षिमीलनाथैः, अभिघातजां तु कायवेपथुदाहहिक्काफेनाङ्गभङ्गजडतामरणादिभिर्वर्णयेत् । यथा स गतः क्षितिमुष्णशोणितार्द्रा खुरदंष्टाप्रनिपतिदारिताश्मा । असुभिः क्षणमीक्षितेन्द्रसूनुर्विहितामर्षगुरुध्वनिर्निरासे ॥ ] [ शृङ्गारे तु मरणाध्यवसायो मरणादूर्ध्वं झटिति पुनर्योगो वा निबध्यते । अन्यत्र तु स्वेच्छा । यथा-संप्राप्तेऽवधिवासरे क्षणममुं तद्वर्त्मवातायनं वारंवारमुपेत्य निष्क्रियतया निश्चित्य किंचिच्चिरम् । संप्रत्येव निवेद्य केलिकुररी : साखं सखीभ्यः शिशोमधव्याः सहकारकेण करुणः पाणिग्रहो निर्मितः ॥ १५९ ॥ [ 1 प्रागवस्थेति । म्रियमाणावस्यैव अनेन व्याधिना मे न निवर्तितव्यमित्येवंविधचित्तवृत्तिरूपा । काइयेति । अष्टौ हि विषवेगाः । यदाह भरतः(50) कार्य तु प्रथमे वेगे द्वितीये वेपथुं तथा । दाहं तृतीये हिक्कां च चतुर्थे संप्रयोजयेत् ॥ फेन च पञ्चमे कुर्यात्स्यात्षष्ठे स्कन्धभञ्जनम् 1 जडतां सप्तमे कुर्यादष्टमे मरणं तथा ॥ Jain Education International [ ना शा. अ. ७ श्लो. ७९-८० ] For Private & Personal Use Only १४३ १० १५ २० २५ www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy