SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १४२ काव्यानुशासनम् [७६-७७) अ. २. सू. ५०-५१ शस्त्रं शस्त्रं न शस्त्री त्वरितमहह हा कर्कशत्वं नखानाम् इथं दैत्याधिनाथो निजनखकुलिशैर्येन भिन्नः स पायात् ॥१५२॥ [क. व. स. ४०] एवं वातावेगादिषूदाहार्यम् । ७६) संदेहादेर्वितर्कः शिरःकम्पानिकृत् ॥ ५० ॥ संदेहविमर्शविप्रतिपत्त्यादिभ्यः संभावनाप्रत्ययो वितर्कः । त शिरःकम्पभ्रक्षेपसंप्रधारणकार्यकलापमुहुर्ग्रहणमोक्षणादिभिर्वर्ण्यः । यथा अनङ्गः पञ्चभिः पौष्पैर्विश्वं व्यजयतेषुभिः । इत्यसंभाव्यमथ वा विचित्रा वस्तुशक्तयः ।। १५३ ॥ १५ ७७) परोत्कर्षादेरसूयावज्ञादिकृत् ॥५१॥ परस्य सौभाग्यैश्वर्यविद्यादिभिरुत्कर्षादादिशद्वादपराधमुहुद्देषादिभ्यश्चाक्षमरूपासूया । तामवज्ञाभ्रुकुटिक्रोधसेर्योक्त्यालोकितदोषोपवर्णनादिभिर्वर्णयेत् । यथावृद्धास्ते न विचारणीयचरितास्तिष्टन्तु हुं वर्तते सुन्दस्त्रीदमनेऽप्यखण्डयशसो लोके महान्तो हि ते। . संदेहेति । संदेहः किंस्विदित्युभयावलम्बी प्रत्ययः संशयरूपः । विमशों विशेषप्रतीत्याकाडात्मिका इच्छा। बाधकप्रमाणेन पक्षान्तराभावप्रतीतिमात्रं विप्रतिपत्तिः । येभ्योऽनन्तरं भवितव्यताप्रत्ययस्वभावः एकतरपक्षाशैथिल्यदायी पक्षान्तरतुल्यकक्षभावाच्च्यावयनुन्ममतामन्यस्य दर्शयंस्तर्कः । स च संशयात्पृथगेव । संदेहेन तत्त्वबुभुत्सादिरूपस्य विमर्शादेः स्वीकारेऽपि कविशिक्षार्थ भङ्गया निरूपणम् । अन्ये तु (49) “ धर्मिणि संदेहो धर्मे तु विमों भ्रान्तिज्ञानं विप्रतिपत्तिः" इत्याहुः ।। 1. I. संभवनीय 2. L. drops from संभावना to वर्ण्यः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy