SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् [७५) अ. २. सू. ४९ किं करोमि क गच्छामि कमुपैमि दुरात्मना ।। दुर्भरणोदरेणाहं प्राणैरपि विडम्बितः ॥ १५१ ॥ ७५) उत्पातादिभ्य आवेगो विस्मयादिकृत् ॥ ४९ ॥ उत्पातवातवर्षाग्निगजप्रियाप्रियश्रवणव्यसनादिभ्यः संभ्रम आवेगः । तं विस्मयावगुण्ठनच्छन्नश्रयणधूमान्ध्यत्वरितापसर्पणपुलकविलापसंनहनादिभिर्यथासंख्यं वर्णयेत् । ___ उत्पातवातेति । आदिशब्दः प्रत्येकमभिसंबध्यते । ततश्चोत्पातादेवातादेवर्षादेरग्न्यादेर्गजादेः प्रियश्रवणादेरप्रियश्रवणादेर्व्यसनादेश्च विभावादित्यर्थः । एवं विस्मयादिना अवगुण्ठनादिनाच्छत्रश्रयणादिना धूमान्ध्यादिना त्वरितापसर्पणादिना पुलकादिना विलापादिना संनहनादिना चानुभावेनेति प्रतिपत्तव्यम् । तत्र उत्पातावेगः किं कि सिंहः' इत्यादिना निदर्शितः । वातावेगो यथा वाताहत वसनमाकुलमुत्तरीयम् ॥ १६२ ॥ इत्यादि । वर्षावेगो यथा 'देवे वर्षत्यशनपचनव्यापृता वहिहेतो र्गेहाद्नेहं फलकनिचितैः सेतुमिः पङ्कभीताः। . तीव्रपान्तानविरलजलान्पाणिमित्ताडयित्वा सूर्पच्छत्रस्थगितशिरसो योषितः संचरन्ति ॥ १६३ ॥ अग्न्यावेगो यथा-'क्षिप्तो हस्तावलमः-' इत्यादि । [अ. श. श्लो. २] गजावेगो यथा 'स च्छिन्नबन्धद्रुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन । रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार ॥ १६४ ॥ [र. वं. स. प. श्लो. ४९ 1 प्रियदर्शनादावेगो यथा एह्येहि वत्स रघुनन्दन पूर्णचन्द्र चुम्बामि मूर्धनि चिरं च परिष्वजे त्वाम् । 1. C. °हेतौ 2. A. B. °नविरतजलान Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy