SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ७३-७४) अ. २ सू. ४७-४८) काव्यानुशासनम् १३९ परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः । उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम् ॥१४९॥ [कि. स. ८. श्लो. ४५] ७३) ग्रहादेरपस्मारः कम्पादिकृत् ॥ ४७ ॥ ग्रहभूतदेवयक्षपिशाचब्रह्मराक्षसशून्यारण्यश्मशानसेवनोच्छिष्टगम- ५ नधातुवैषम्यादेरावेशरूपोऽपस्मारः। तं कम्पितस्फुरितस्विन्नधावितश्वसितभूमिपतनारावमुखफेनादिभिर्वर्णयेत् । अयं च प्राय आभासेष्वेव शोभते । यथा आश्लिष्टभूमिं रसितारमुच्चैलॊलद्भुजाकारबृहत्तरङ्गम् । फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के ।। १५०॥ १० [शि. व. स. ३ श्लो. ७२] ७४) रोगादेनिर्वेदो रुदितादिकृत् ॥४८॥ रोगाधिक्षेपताडनदारिद्रयेष्टवियोगावमानतत्त्वज्ञानादिभ्यः स्वाववमाननारूपो निर्वेदः । स रुदितश्वसितानुपादेयतादिभिर्वर्ण्यते । यथा तत्त्वज्ञानादिभ्य इति । चिरकालविभ्रमविप्रलब्धस्य उपादेयत्वनिवृत्तये १५ यत्सम्यग्ज्ञानं तनिर्वेदं जनयति, न त्वात्मस्वभावः । तस्य शान्तस्थायित्वेनोक्तत्वात् । यथा 'वृथा दुग्धोऽनड्वान्स्तनभरनता गौरिति चिरं परिष्वक्तः षण्ढो युवतिरिति लावण्यरहितः । । कृता वैडूर्याशा विकचकिरणे काचशकले मया मूढेन त्वां कृपणमगुण प्रणमता ॥ १६१ ॥ इति ॥ . [ सुभाषितावली ४४९ ] अयं च निर्वेदः स्वयं पुरुषार्थसिद्धये वा, उत्साहरत्यादिवदत्यन्तानुरजनाय वा हासविस्मयादिवन प्रभवतीत्यन्यमुखप्रेक्षितत्वाद्वयभिचार्येवेति । 1. L. खिन्न 2. I. L. वयः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy