SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ . १३८ काव्यानुशासनम् [७०-७२) अ. २. सू. ४४-४६ एतावत्सखि वेनि सांप्रतमहं तस्याङ्गसङ्गे पुनः कोऽसौ कास्मि रतं तु किं कथमिति स्वल्पापि मे न स्मृतिः ॥१४६। [अ. श. श्लो. १०१ ] ७०) दारिद्रयादेश्चिन्ता संतापादिकृत् ॥ ४४ ॥ दारिद्रयेष्टद्रव्यापहारैश्वर्यभ्रंशादिभ्यो ध्यानं चिन्ता । सा च स्मृतेरन्या । प्रसनाददनवत्, खेलनाद्गमनवच्च । तां संतापशून्यचित्तत्वकार्यश्वासाधोमुखचिन्तनादिभिर्वर्णयेत् । सा च वितर्कात्ततो वा वितर्क इति वितर्कात्पृथग्भवति चिन्ता । यथापश्यामि तामित इतश्च पुरश्च पश्चा दन्तर्बहिः परित एव विवर्तमानाम् । उबुद्धमुग्धकनकाञ्जनिभं वहन्तीमासज्य तिर्यगपवर्तितदृष्टिवक्त्रम् ॥ १४७ ॥ मा. मा. अं. १. श्लो. ४३] ७१) आक्षेपादेरमर्षः स्वेदादिकृत् ॥ ४५ ॥ विद्यैश्वर्यबलाधिककृतेभ्य आक्षेपावमानादिभ्यः प्रतिचिकीर्षारूपोऽमर्षः । स च स्वेदध्यानोपायान्वेषणशिरःकम्पाधोमुखविचिन्तनादिभिर्वर्ण्यते । यथालाक्षागृहानलविषान्नसभाप्रवेशैः प्राणेषु चित्तनिचयेषु च नः प्रहृत्य । आकृष्टपाण्डववधूपरिधानकेशाः स्वस्था भवन्ति मयि जीवति धार्तराष्टाः ॥ १४८ ॥ [वे. सं. अं. १ श्लो. ८.] ७२) निर्घातादेखासोऽङ्गसंक्षेपादिकृत् ॥ ४६॥ निर्घातगर्जितभूपर्वतकम्पशिलोल्काशनिविद्युत्पातरक्षःस्थूलपशूत्क्रु२५ ष्टादिभ्यश्चेतश्चमत्कृतिरूपत्रासो भयात्पूर्वापरविचारवतो भिन्न एव । __सोऽङ्गसंक्षेपस्तम्भरोमोद्गमगद्गदप्रलयोत्कम्पनिःस्पन्दवीक्षितैर्वर्ण्यः। यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy