SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १३६ १० १५ २० काव्यानुशासनम् [ ६५ - ६७) अ. २. सू. ३९-४१ नागा मोक्तुमिच्छो: शयनमुरु फणाचक्रवालोपधानम् निद्राच्छेदाभिताम्रा चिरमवतु हरेर्दृष्टिराकेकरा वः ॥ १४० ॥ [ मु. रा. अं. ३. लो. २१] ६५) व्याध्यादेनिर्वैवर्ण्यादिकृत् ॥ ३९ ॥ व्याधिमनस्तापनिधुवनोपवासक्षुत्पिपासाध्वलङ्घन निद्राच्छेदातिपानतपोजराकलाभ्यासादिभ्यो बलापचयो ग्लानिस्तां वैवर्ण्यक्षामनेत्र कंपोलोक्तिश्लथाङ्गत्वप्रवेपनदीन संचारानुत्साहादिभिर्वर्णयेत् । यथाकिसलयमिव मुग्धं बन्धनाद्विप्रलूनं हृदयकुसुमशोषी दारुणो दीर्घशोकः । ग्लपयति परिपाण्डु क्षाममस्याः शरीरं शरदिज इव धर्मः केतकीगर्भपत्रम् ॥ १४१ ॥ [ उ. रा. च. अं. ३ श्लो. ५] ६६) दौर्गत्यादेर्दैन्यममृजादिकृत् ॥४०॥ दौर्गत्य मनस्तापादिभ्योऽनौजस्यं दैन्यम् । तन्मृजात्यागगुर्वङ्गताशिरः प्रावरणादिभिर्वर्णयेत् । यथा अस्मान्साधु विचिन्त्य संयमधनानुचैः कुलं चात्मनस्त्वय्यस्याः कथमप्यबान्धवकृतां प्रेमप्रवृत्तिं च ताम् | सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया भाग्याधीनमतः परं न खलु तत् स्त्रीबन्धुभिर्याच्यते ॥ १४२॥ Jain Education International [ अ. शा. अं. ४ श्लो. १६ ] ६७) व्यायामादेः श्रमोऽङ्गभङ्गादिकृत् ॥४१॥ व्यायमाध्वगत्यादिभ्यो मनः शरीरखेदः श्रमः । सोऽङ्गभङ्गमर्दन 1 मन्दकमास्यविकूणनादिभिर्वर्णयेत् । यथा 1. P. वर्ण्यते For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy