________________
५६-५८) अ. २. सू. ३०-३२ ] काव्यानुशासनम् १३३ . ५६) इष्टानुस्मरणादेरौत्सुक्यं त्वरादिकृत् ॥३०॥
इष्टानुस्मरणदर्शनादेविलम्बासहत्वमौत्सुक्यम् । तत् त्वरानिःश्वसितोच्छसितकार्यमनःशून्यतादिगवलोकनरणरणकादिभिर्वर्णयेत् । यथा- .
आलोकमार्ग सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः। बद्धं न संभावित एव तावत्करेण रुद्धोऽपि हि केशपाशः ॥१३२॥ ५
[र. वं. स. ७ श्लो. ६; कु. सं. स. ७ श्लो. ५७ ] ५७) लज्जादेवहित्थमन्यथा कथनादिकृत् ॥३१॥ लज्जाजैायभयगौरवादिभ्यो भूविकारमुखरागादीनामाच्छादनकारिणी चित्तवृत्तिरवहित्थमवहित्था वा । न बहिःस्थं चित्तं येनेति पृषोदरादित्वात् । तदन्यथा कथनावलोकितकथाभङ्गकृतकधैर्यादिभिर्वर्णयेत् । १० यथा--
एवंवादिनि देवर्षी पार्श्वे पितुरधोमुखी । लीलाकमलपत्राणि गणयामास पार्वती ॥१३३॥
[कु. सं. स. ६. श्लो. ८४] ५८) चौर्यादेः स्वपरयोः शङ्का पार्थविलोकनादिकृत्।३२। १५
चौर्यपारदार्यादेविरुद्धाचरणादनिष्टोत्प्रेक्षा शङ्का । सा च कदाचित् स्वस्मिन् यदा समापराधयोरात्मपरयोः परो राज्ञा दण्डयते । कदाचित्परस्मिन्यदा विकाराकुलतया कृतदोषत्वेन परः संभाव्यते । सा च पार्श्वविलोकनमुखौष्ठकण्ठशोषणगात्रप्रकम्पस्वरास्यवर्णभेदावगुण्ठनादिभिर्वर्ण्यते । स्वस्मिन् यथा
दूरादवीयो धरणीधराभं यस्ताडकेयं तृणवद् व्यधूनोत् । हन्ता सुबाहोरपि ताडकारिः स राजपुत्रो हृदि बाधते माम् ।१३४।
[म. च. अं. २ श्लो. १] 1 L• बद्धं २. राजादिना N. राजादिनन
Nोजादिन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org