SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १. काव्यानुशासनम् [५४-५५)अ.२.सू. २८-२९ - विरहाभिलाषादिभ्यो मनस्तापो व्याधिहेतुत्वाद्वयाधिः । तं मुखशोषनस्ताङ्गतागात्रधिक्षेपादिभिर्वर्णयेत् । यथामनोरोगस्तीनं विषमिव विसर्पत्यविरतं प्रमाथी निधूमं ज्वलति विधुतः पावक इव । हिनस्ति प्रत्यङ्गं ज्वर इव गरीयानित इतो न मां तातस्त्रातुं प्रभवति न चाम्बा न भवती ॥१२९।। [मा. मा. अं. २. श्लो. १.] ५४) क्लमादेनिंद्रा जृम्भादिकृत् ॥२८॥ क्लमश्रममदालस्यचिन्तात्याहारस्वभावादिभ्यो मनःसंमीलनं निद्रा । तां जृम्भावदनगौरवशिरोलोलननेत्रघूर्णनगात्रेमर्दोच्छसितनिःश्वसितसन्नगात्रताक्षिनिमीलनादिभिर्वर्णयेत् । यथानिद्रानिमीलितदृशो मदमन्थराणि नाप्यर्थवन्ति न च यानि निरर्थकानि । अद्यापि मे मृगदशो मधुराणि तस्यास्तान्यक्षराणि हृदये किमपि ध्वनन्ति ॥१३०॥ [सुभाषितावली. ३२८०. कलशकस्य ] ५५) निद्रोद्भवं सुप्तमुत्स्वमायितादिकृत् ॥२९॥ निद्रोद्भवमित्यनेन निद्राया एव गाढावस्था सुप्तमित्याह । तदुस्वप्नायितोच्छुसितनिःश्वसितसंमोहादिना वर्णयेत् । यथा-- एते लक्ष्मण जानकीविरहितं मां खेदयन्त्यम्बुदा मर्माणीव विघट्टयन्त्यलममी क्रूराः कदम्बानिलाः । इत्थं व्याहृतपूर्वजन्मचरितो यो राधया वीक्षितः सेयं शङ्कितया स वः सुखयतु स्वप्नायमानो हरिः ॥१३॥ . [ सदुक्तिकर्णामृत. शुभाङ्कस्य ] 1. I. बलीयानित, L. सईयानित . १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy