SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ५१-५३) अ. २. सू.२५-२७] काव्यानुशासनम् ५१) कार्यभङ्गाद् विषादः सहायान्वेषणमुखशोषादिकृत् ॥२५॥ उपायाभावनाशाभ्यां प्रारब्धस्य कार्यस्य भङ्गान्मनःपीडा विषादः। तं सहायान्वेषणोपायचिन्तनोत्साहविघातवैमनस्यादिना उत्तममध्यमानां मुखशोषजिह्वासृक्कलेहननिद्राश्वसितध्यानादिभिरधमानां वर्णयेत् । यथा व्यर्थ यत्र कपीन्द्रसख्यमपि मे क्लेशः कपीनां वृथा प्रज्ञा जाम्बवतो न यत्र न गतिः पुत्रस्य वायोरपि । मार्ग यत्र न विश्वकर्मतनयः कर्तुं नलोऽपि क्षमः सौमित्रेरपि पत्रिणामविषयस्तत्र प्रिया कापि मे ॥१२७।। . [उ. रा. च. अं. ३ श्लो. ४६] १. ५२) मद्योपयोगान्मदः स्वापहास्यास्मरणादिकृत् ॥२६॥ .. मद्यपानादानन्दसंमोहयोः संगमो मदः । तं स्वापस्मितगानकिंचिदाकुलबाष्पस्खलद्गतिमञ्जभाषणरोमोद्गमादिभिरुत्तमानां हास्यगीतिखस्ताकुलभुजक्षेपव्याविद्धकुटिलगत्यादिभिर्मध्यमानाम् , अस्मरणघूर्णनस्खलद्गमनरुदितछर्दितसन्नकण्ठनिष्ठीवनादिभिरधमानां वर्णयेत्। तथा च १५ (13) उत्तमाधममध्येषु वर्ण्यते प्रथमो मदः । द्वितीयो मध्यनीचेषु नीचेष्वेव तृतीयकः ॥ [ ] यथा सावशेषपदमुक्तमुपेक्षा स्रस्तमाल्यवसनाभरणेषु । गन्तुमुद्यतमकारणतः स्म द्योतयन्ति मदविभ्रममासाम् ॥१२८॥ २० [शि. व. स. १०. श्लो. १६ ] ५३) विरहादेर्मनस्तापो व्याधिर्मुखशोषादिकृत् ॥२७॥ 1. I. हास्यगीत 2. P. व्यावद्भकुटिल°; L. व्याप्तिकुटिल Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy