SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १.३० १० काव्यानुशासनम् [ ४८ - ५० ) अ. २. सू. २२-२४ मैनाक: किमयं रुणद्धि गगने मन्मार्गमव्याहतम् शक्तिस्तस्य कुतः स वज्रपतनाद्भीतो महेन्द्रादपि । तार्क्ष्यः सोऽपि समं निजेन विभुना जानाति मां रावणं आ ज्ञातं स जटायुरेष जरसा क्लिष्टो वधं वाञ्छति ॥१२३ ॥ [ हनु. अं. ४ श्लो. ९. ] ४८) शास्त्रचिन्तादेर्मतिः शिष्योपदेशादिकृत् ॥ २२ ॥ शास्त्रचिन्तनोहापोहा दिभ्योऽर्थनिश्चयो मतिः । तां शिष्योपदेशार्थविकल्पनसंशयच्छेदादिभिर्वर्णयेत् । यथा → असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः । सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥ १२४ ॥ [ अ. शा. अं. १ श्लो. १९. ] ४९) अकार्यकरणज्ञानादेवींडा वैवर्ण्यादिकृत् ॥ २३ ॥ अकार्यकरणज्ञानगुरुव्यतिक्रमप्रतिज्ञाभङ्गादेश्चेतःसंकोचो व्रीडा । तां वैवर्ण्यधोमुखविचिन्तन भूविलेखन वस्त्राङ्गुलीयकर्णस्पर्शननखनिस्तो 1 १५ दनादिभिर्वर्णयेत् । यथा— । 88 दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः । वीक्ष्य बिम्बमनुबिम्बमात्मनः कानि कानि न चकार लज्जया ॥१२५॥ [ कु. सं. स. ८. श्लो. ११ ] ५०) इष्टानिष्टदर्शनादेर्जाचं तूष्णींभावादिकृत् ॥ २४ ॥ इष्टानिष्टदर्शनश्रवणव्याध्यादिभ्योऽर्थाप्रतिपत्तिर्जाड्यम् । तत्तष्ण भावानिमिषनयननिरीक्षणादिभिर्वर्णयेत् । यथा एवमालि निगृहीतसाध्वसं शङ्करो रहसि सेव्यतामिति । सा सखीभिरुपदिष्टमाकुला नास्मरत् प्रमुखवर्तिनि प्रिये ॥ १२६ ॥ [ कुं. सं. स. ८ श्लो. ५] 1. P. लीयकस्पर्श Jain Education International L. लीयस्पर्श For Private & Personal Use Only - www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy