SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १० ४६-४७) अ. २. सू. २०-२१ ] काव्यानुशासनम् १२९ तेनान्येषामत्रैवान्तर्भावः । तद्यथा-दम्भस्यावहित्थे, उद्वेगस्य निर्वेदे, क्षुत्तृष्णादेर्लानौ । एवमन्यदप्यूह्यम् । अन्ये त्वाहुः-एतावत्स्वेव सहचारिषु अवस्थाविशेषेषु प्रयोगे प्रदर्शितेषु स्थायी चर्वणायोग्यो भवति । एषां विभावानुभावानाह ४६) ज्ञानादेऽतिरव्यग्रभोगकद ॥२०॥ ज्ञानबाहुश्रुत्यगुरुभक्तितपःसेवाक्रीडार्थलाभादिविभावा धृतिः संतोषः । सा च लब्धानामुपभोगेन नष्टानामननुशोचनेन च योऽव्यग्रो भोगस्तं करोति । तेनानुभावेन धृतिं वर्णयेदित्यर्थः । यथावयमिह परितुष्टा वल्कलैस्त्वं च लक्ष्म्या सम इह परितोषे निर्विशेषा विशेषाः । स तु भवतु दरिद्रो यस्य तृष्णा विशाला मनसि च परितुष्टे कोऽर्थवान् को दरिद्रः ॥ १२२ ॥ [भ. वै. श. श्लो. ५३ ] ४७) सदृशदर्शनादेः स्मृतिभ्रूक्षेपादिकृत् ॥२१॥ सदृशदर्शनस्पर्शनश्रवणाभ्यासप्रणिधानादिभ्यः सुखदुःखहेतूनां १५ स्मरणं स्मृतिः । तां भ्रक्षेपशिरःकम्पमुखोन्नमनशून्यावलोकनाङ्गुलीभङ्गादिभिर्वर्णयेत् । यथा विभावानुभावानिति । न तु व्यभिचारिणः । एवं हि तदास्वादे रसान्तरमपि स्यात् । यत्रापि च व्यभिचार्यन्तरं संभाव्यते-तद्यथा पुरूरवस . उन्मादे वितर्कचिन्तादि [वि. अं. ४]-तत्रापि रतिस्थायिभावस्यैव व्यभि- २० चार्यन्तरयोगः स केवलममात्यस्थानीयो नोन्मादेन कृतोपराग इति । 1 I. L. प्रयोगप्रदर्शितेषु 2. I. L. drop च 3. I. repeats some words from कः खलु युवा etc. after सदर्शदर्श. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy