SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १२८ १० १५ २५ काव्यानुशासनम् [ ४९ ) अ. २. सू. १९ भूयरतरप्रवृतं वृतं च शिथिलक्षितैकदोर्लेखया तन्वङ्गया न तु पारितः स्तनभरी नेतुं प्रियस्योरसः ॥ ११८ ॥ [ अ. श. श्लो. १५१ ] अत्र मानस्योदयः । प्रशमो यथा दृष्टे लोचनवन्मनाडू मुकुलितं पार्श्वस्थिते वक्त्रवन्न्यग्भूतं बहिरासितं पुलकवत्स्पर्श समातन्वति । नीवीबन्धवदागतं शिथिलता संभाषमाणे ततो मानेनापसृतं ह्रियेव सुदृशः पादस्पृशि प्रेयसि ॥ ११९ ॥ [ अ. श. श्लो. Jain Education International अत्र मानस्य प्रशमः । संधिर्यथा उत्सिक्तस्य तपः पराक्रमनिधेर भ्यागमादेकतः सत्सङ्गप्रियता च वीररभसोत्फालश्च मां कर्षतः । वैदेही परिरम्भ एष च मुहुश्चैतन्यमामीलयन् आनन्दी हरिचन्दनेन्दुशिशिरः स्निग्धो रुणद्धचन्यतः ॥ १२० ॥ [म. च. अ. २. श्लो. २२. ] अत्रावेगहर्षयोः सन्धिः । १६० ] शबलत्वं यथा क्वाकार्य शशलक्ष्मणः क च कुलं भूयोऽपि दृश्येत सा दोषाणां प्रशमाय मे श्रुतमहो कोपेऽपि कान्तं मुखम् | किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं धास्यति ॥ १२१ ॥ [ सुभाषितावली १३४३ कालिदासस्य ] अत्र वितत्सुिक्यमतिस्मरणशङ्कादैन्यधृतिचिन्तानां शबलत्वम् । विविधमाभिमुख्येन स्थायिधर्मोपजीवनेन स्वधर्मार्पणेन च चरन्तीति व्यभिचारिणः । भावा इत्यनुवर्तते । संख्यावचनं नियमार्थ For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy