________________
१२७
४५) अ. २ सू. १९] काव्यानुशासनम्
तत्र धृतिः संतोषः । स्मृतिः स्मरणम् । मतिरर्थनिश्चयः । ब्रीडा चित्तसंकोचः। जाड्यमर्थाप्रतिपत्तिः। विषादो मनःपीडा । मद आनन्दसंमोहसंभेदः । व्याधिर्मनस्तापः । निद्रा मनःसंमीलनम् । सुप्त निद्राया गाढावस्था। औत्सुक्यं कालाक्षमत्वम् । अवहित्थमाकारगुप्तिः । शङ्कानिष्टोत्प्रेक्षा । चापलं चेतोऽनवस्थानम् । आलस्यं पुरुषार्थेष्वनादरः। ५ हर्षश्चेतःप्रसादः । गर्वः परावज्ञा । औग्यं चण्डत्वम् । प्रबोधो विनिद्रत्वम् । ग्लानिर्बलापचयः । दैन्यमनौजस्यम् । श्रमः खेदः । उन्मादश्चित्तस्य विप्लवः । मोहो मूढत्वम् । चिन्ता ध्यानम् । अमर्षः प्रतिचिकीर्षा । त्रासश्चित्तचमत्कारः । अपस्मार आवेशः । निर्वेदः स्वावमाननम् । आवेगः संभ्रमः । वितर्कः संभावना । असूयाऽक्षमा । १० मृतिम्रियमाणता । एते च स्थित्युदयप्रशमसन्धिशबलत्वधर्माणः । स्थितियथा--.
तिष्ठेत्कोपवशात्प्रभावपिहिता दीर्घ न सा कुप्यति स्वर्गायोत्पतिता भवेन्मयि पुनर्भावामस्या मनः । तां हर्तुं विबुधद्विषोऽपि न च मे शक्ताः पुरोवर्तिनी सा चात्यन्तमगोचरं नयनयोतिति कोऽयं विधिः ॥११७॥
[वि. अ. ४. श्लो. २] अत्र विप्रलम्भरससद्भावेऽपि इयति वितर्कस्थितिचमत्कारकृत आस्वादातिशयः । उदयो यथा
याते गोत्रविपर्यये श्रुतिपथं शय्यामनुप्राप्तया निध्यातं परिवर्तनं पुनरपि प्रारब्धमङ्गीकृतम् । 1. 1. चित्तविप्लवः 2. I. यातेति 3. P. प्रारम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org