________________
१२६
काव्यानुशासनम् [१५) १.२. सू. १९
हेतुप्रश्नमाहुः । अत एव विभावास्तत्रोद्बोधकाः सन्तः स्वरूपोपरचकत्वं विदधाना रत्युत्साहादेरुचितानुचितत्वमात्रमावहन्ति, न तु तदभावे ते सर्वथैव निरुपाख्याः । वासनात्मना सर्वजन्तूनां तन्मयत्वेनोक्तत्वात् । व्यभिचारिणां तु स्वविभावाभावे नामापि नास्तीति ।
तत्र परस्परास्थाबन्धात्मिका रतिः। चेतसो विकासो हासः । वैधुर्यं शोकः । तैक्ष्ण्यप्रबोधः क्रोधः। संरम्भः स्थेयानुत्साहः । वैक्लव्यं भयम् । संकोचो जुगुप्सा । विस्तारो विस्मयः । तृष्णाक्षयः शमः ।
रसलक्षण एव स्थायिस्वरूपे निरूपिते पुनर्निर्देशः कृचिदेषां व्यभिचारित्वख्यापनार्थः । तथा हि विभावभूयिष्ठत्व एषां स्थायित्वम् , अल्पविभावत्वे तु व्यभिचारित्वम् । यथा रावणादावन्योन्यानुरागाभावादतिर्व्यभिचारिणी । तथा गुरौ प्रियतमे परिजने च यथायोगं वीरशृङ्गारादौ रोषो व्यभिचार्येव । एवं भावान्तरेषु वाच्यम् । शमस्य तु यद्यपि कचिदप्राधान्यम्, तथापि न व्यभिचारित्वं सर्वत्र प्रकृतित्वेन स्थायितमत्वात् । व्यभिचारिणो ब्रूते
४५) धृतिस्मृतिमतिव्रीडाजाडयविषादमदव्याधिनिद्रामुप्तौत्सुक्यावहित्थशङ्काचापलालस्यहर्षगौंग्यप्रबोधग्लानिदैन्यश्रमोन्मादमोहचिन्तामर्षत्रासापस्मारनिर्वेदावेगवितर्काम्यामृतयःस्थि त्युदयप्रशमसन्धिशबलत्वधर्माणस्त्रयस्त्रिंशद्वयभिचारिणः ॥१९॥
प्रकृतित्वेन स्थायितमत्वादिति । रत्यादयो हि तत्तत्कारणान्तरोदयप्रलयोत्पद्यमाननिरुध्यमानवृत्तयः किश्चित्कालमापेक्षिकतया स्थायिरूपात्ममित्तिसंश्रयाच स्थायिन इत्युच्यन्ते । तत्त्वज्ञानं तु सकलभावान्तरमित्तिस्थानीय सर्वस्थायिभ्यः स्थायितमं सर्वा रत्यादिकाः रथायिचित्तवृत्तीय॑मिवारीभावय. निसर्गत एवं सिद्धस्थायिभावमिति ।
1. I. तत्र बोधकाः 2. P. तैष्ण्यं प्र. L. तैक्षणः प्र. 3. I. स्थेयानुत्साहः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org