________________
४३) अ. २ सु. १७ ] काव्यानुशासनम्
न चास्य विषयजुगुप्सारूपत्वाद बीभत्सेऽन्तर्भावो युक्तः । जुगुप्सा ह्यस्य व्यभिचारिणी भवति न तु स्थायितामेति । पर्यन्तनिर्वाहे तस्या त्याज्यं शरीरं, यदि परार्थ तत्त्यज्यते तत्किमिव न संपादितं भवति । जीमूतवाहनादीनां न यतित्वमिति चेत् किं तेन । तत्त्वज्ञानित्वं तावदवश्यमस्त्यन्यथा परार्थे त्यागस्यासंभाव्यत्वात् । युद्धेऽपि हि न वीरस्य देहत्यागायोद्यमः परावजयोद्देशेनैव प्रवृत्तेः । भृगुपतनादावपि शुभतमदेहान्तरसंपिपादयिषैवाधिकं विजृम्भते । तत्खार्थानुद्देशेन परार्थसंपत्त्यै यद्यच्चेष्टितं देहत्यागपर्यन्तमुपदेशदानादि तत्तदलब्धात्मतत्त्वज्ञानानामसंभाव्यमेवेति । तेऽपि तत्त्वज्ञानिनो ज्ञानिनां सर्वेष्वाश्रमेषु मुक्तिरिति । स्मार्ते श्रुतौ च यथोक्तम्
(46) देवार्चनरतस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः ।
श्राद्धं कृत्वा ददद् द्रव्यं गृहस्थोऽपि हि मुच्यते ॥ [
J
इति केवलं परार्थामिसंधिजाताद्धर्मात्परोपकार फलत्वेनैवाभिसंहितात्पुनरपि देहस्य तदुचितस्यैव प्रादुर्भावो बोधिसत्त्वानां तत्त्वज्ञानिनामपि । दृष्टाङ्गेष्वपि विश्रान्तिलाभः, स्वभावौचित्यात् । यथा रामस्य वीराङ्गे पितुराज्ञां परिपालयतः । एवं शृङ्गाराद्यङ्गेष्वपि मन्तव्यम् । अत एव शान्तस्य स्थायित्वेऽप्यप्राधान्यं जीमूतवाहने त्रिवर्गसंपत्तेरेव परोपकृतिप्रधानायाः फलत्वात् । तदत्र सिद्धं दयालक्षणोऽभ्युत्साहोऽत्र प्रधानम् । अन्ये तु व्यभिचारिणो यथायोगं भवन्तीति ।
एवं च यत्कैश्चिज्जीमूतवाहनस्य धीरोदात्तत्वं प्रतिष्ठितं तत्प्रत्युक्तमेव । न च तदीया पर्यन्तावस्था व्यावर्तनीया येन सर्वचेष्टो परमादनुभावभावेनाप्रतीयमानता स्यात् । शृङ्गारादेरपि हि फलभूमावव्यावर्णनीयतैव । पूर्वभूमौ तु ( 47 ) " प्रशान्तवाहितासंस्कारात् "
( 48 ) छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः
[ यो. सू. पा. ३. सू. १० ]
""
[ यो. सू. पा. ४. सू. २७ ] इति सूत्रद्वयानीत्या चित्राकारा यमनियमादिचेष्टा वा राज्यधुरोद्वहनादिलक्षणा वा शान्तस्यापि जनकादेर्दृष्टैवेत्यनुभाव सद्भावाद्यमादिमध्यसंभाव्यमानभूयो व्यमि
1. N. तावदस्त्येव अन्यभा
2. A drops मानभूयो ब्य
Jain Education International
For Private & Personal Use Only
१२३
१०
१५
२०
२५
www.jainelibrary.org