________________
4b
काव्यानुशासनम् [४३) अ. २. सू. १७
१०
गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य
ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य । किं तैर्भाव्यं मम सुदिवसैर्येषु ते निर्विशङ्काः कण्डूयन्ते जरठहरिणाः शृङ्गकण्डूं विनेतुम् ॥११७॥
[भ. वै. श. श्लो. १८.] अनुभावाः, विभावा अपि परमेश्वरानुग्रहप्रमृतयः, प्रक्षयोन्मुखाश्च रत्यादयोऽत्रास्वाद्यन्ते । केवलं यथा विप्रलम्भ औत्सुक्यं संभोगेऽपि वा प्रेमा ऽसमाप्तोत्सव. मिति । यथा च रौद्र औग्र्यम् , यथा च करुणवीरभयानकाद्भुतेषु निर्वेदधृतित्रासहर्षा व्यभिचारिणोऽपि प्राधान्येनावभासन्ते, तथा शान्ते जुगुप्साद्याः । सर्वथैव रागप्रतिपक्षत्वात् स्वात्मनि च कृतकृत्यस्य परार्थघटनायामेवोद्यम इत्युत्साहोऽस्य परोपकारविषयेच्छाप्रयत्नरूपो दयापरपर्यायोऽभ्यधिकोऽन्तरजः । अत एव केचिद्दयावीरत्वेन व्यपदिशन्त्यन्ये धर्मवीरत्वेन ।
ननूत्साहोऽहंकारप्राणः शान्तस्त्वहंकारशैथिल्यात्मकः । ननु किमतः, व्यभिचारित्वं हि विरुद्धस्यापि नानुचितं, रताविव निर्वेदादेः । ‘शय्यां शाडुलम्'इत्यादौ हि परोपकारकरणे उत्साहस्यैव प्रकों लक्ष्यते, न तूत्साहशून्या काचिदप्यवस्था । इच्छाप्रयत्नव्यतिरेकेण पाषाणतापत्तेः । यत एव च परिदृष्टपरापरत्वेन स्वात्मो शेन कर्तव्यान्तरं नावशिष्यते, अत एव शान्तहृदयानां परोपकाराय शरीरसर्वस्वादिदानं न शास्त्रविरोधि । 'आत्मानं यो गोपायेत्' इत्यादिना ह्यकृतकृत्यविषयं शरीररक्षणमुपदिश्यते, संन्यासिनां तद्रक्षादितात्पर्याभावात् । तथा हि(45) धर्मार्थकाममोक्षाणां प्राणाः संस्थितिहेतवः ।
तानिनता किं न हतं रक्षता किं न रक्षितम् ॥
२.
मामा
इत्यतिप्रसिद्धचतुर्वर्गसाधकत्वमेव देहरक्षायां निदानं दर्शितम् । कृतकृत्य२५ स्य ‘जलेऽग्नौ श्वभ्रे वा पतेत्' इति संन्यासित्वे श्रवणात् । तद्यथा कथंचि
1. I. हिमवति 2. A. drops कृत 3. A. B. कृतकृतस्य C. कृतप्रेत्यस्य जले०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org