________________
४३) अ. २. सू. १६] काव्यानुशासनम् १२१ दिव्यभिचारी तृष्णाक्षवरूपः शमः स्थायिभावश्चर्वणां प्राप्तः शान्तो रसः । यथा
तृष्णाक्षय इति । तृष्णानां विषयाभिलाषाणां क्षये य आत्मस्वभावः प शमः । अयमर्थ:-कालुष्योपरागदायिनिर्भयरत्यादिभिरनुपरक्तं यदात्मस्वरूपं तदेव विरलोऽसितरत्नान्तरालनिर्भासमानसिततरसूत्रवदाभातस्वरूपं रत्यादिषूपर- ५ अकेषु तथाभावेनापि सकृद्विभातोऽयमात्मेति न्यायेन भासमानं परोन्मुखतात्मकसकलदुःखजालहीनं परमानन्दलाभसंविदेकघनं तथाविधहृदयसंवादवतो हृदयं विधत्ते ।
एतेन निर्वेदस्यामङ्गलप्रायत्वेऽपि व्यभिचारिषु यन्मुनिना प्रथममुपादानं कृतं तत्स्थायितामिधानार्थमिति यदुक्तम् , तत्प्रतिक्षिप्तम् । तथा हि-कोऽयं १० निर्वेदो नाम, दारिद्यादिप्रभवस्तत्त्वज्ञानप्रभवो वा । तत्राद्यस्य शोकप्रवाहप्रसररूपचित्तवृत्तिविशेषस्य व्यभिचारित्व वक्ष्यते। अथ तत्त्वज्ञानजो निर्वेदः स्थायी, तहिं तत्त्वज्ञानमेवात्र विभावत्वेनोक्तं स्यात् । वैराग्यबीजादि तु कथं विभावः । तदुपायत्वादिति चेत्कारणकारणेऽयं विभावताव्यवहारः, स चातिप्रसङ्गावहः । किं च निर्वेदो नाम सर्वत्रानुपादेयताप्रत्ययो वैराग्यलक्षणः । स च तत्त्वज्ञानस्य प्रत्युतोपायः । विरक्तो हि तथा प्रयतते यथास्य तत्त्वज्ञानमुत्पद्यते । तत्त्वज्ञानाद्धि मोक्षो न तु तत्त्वं ज्ञात्वा निर्विद्यते । ननु तत्त्वज्ञानिनः सर्वत्र दृढतरं वैराग्य दृष्टम् । भवत्येवम् । तादृशं तु वैराग्यं ज्ञानस्यैव पराकाष्ठेति न निर्वेदः स्थायीति । ___यत्तु व्यभिचारिव्याख्यानावसरे 'वृथा दुग्धोऽनवान् ' इत्यादौ चिरकाल- २० विभ्रमविप्रलब्धस्योपादेयत्वनिवृत्तये सम्यग्ज्ञानं वक्ष्यते, तनिर्वेदस्य खेदरूपस्य विभावत्वेनेति । तस्मात् शम एव स्थायी ।
न च शमशान्तयोः पर्यायत्वमाशङ्कनीयम् । हासहास्ययोरिव सिद्धसांध्यतया लौकिकालौकिकतया साधारणासाधारणतया च वैलक्षण्यात् । यथा च कामादिषु पुरुषार्थेषु समुचिताश्चित्तवृत्तयो रत्यादिशब्दवाच्याः कविनटव्यापारेणाखादयोग्यता. २५ प्रापणद्वारेण तथाविधहृदयसंवादवतः सामाजिकान् प्रति रसत्वं शृङ्गारादितया नीयन्ते, तथा मोक्षामिधानपरपुरुषायोंपचितापि शमरूपा चित्तवृत्ती रसतां नीयत इति ।
तथा हि तत्त्वज्ञानस्वभावस्य शमस्य स्थायिनः समस्तोऽयं लौकिकालौकिकश्चित्तवृत्तिकलापो व्यमिचारितामभ्येति । तदनुमावा एव च यमनियमाथुपकृता ३० +विरलासित° may be the correct read ing. 1, A. B. धोंचिता ...
१६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org