________________
१२४
काव्यानुशासनम् [४४) अ. २. सू. १८ मूलत एवोच्छेदात् । न च धर्मवीरे । तस्याभिमानमयत्वेन व्यवस्थानात् । अस्य चाहङ्कारप्रशमैकरूपत्वात् । तथापि तयोरेकत्वपरिकल्पने वीररौद्रयोरपि तथाप्रसङ्गः । धर्मवीरादीनां चित्तवृत्तिविशेषाणां सर्वाकारमहङ्काररहितत्वे शान्तरसप्रभेदत्वम्, इतरथा तु वीररसप्रभेदत्वमिति व्यवस्थाप्यमाने न कश्चिद्विरोधः । तदेवं परस्परविविक्ता नवापि रसाः। एषां क्रमेण स्थायिभावान् संगृह्णाति
४४) रतिहासशोकक्रोधोत्साहभयजुगुप्साविस्मयशमाःस्थायिनो भावाः ॥ १८॥
भावयन्ति चित्तवृत्तय एवालौकिकवाचिकाद्यभिनयप्रक्रियारूढतया स्वात्मानं लौकिकदशायामनास्वाधमप्यास्वाधं कुर्वन्ति, यद्वा भावयन्ति व्याप्नुवन्ति सामाजिकानां मन इति भावाः,-स्थायिनो व्यभिचारिणश्च । तत्र स्थायित्वमेतावतामेव ।
जात एव हि जन्तुरियतीभिः संविद्भिः परीतो भवति । तथा हि दुःखविद्वषी सुखास्वादनलालसः सर्वो रिरंसया व्याप्तः स्वात्मन्युत्कर्षचारिसद्भावाच प्रतीयत एव, न न प्रतीयते। ननु प्रतीयते, सर्वस्य तु श्लाघास्पदं न भवति । तहि वीतरागाणां शृङ्गारो न श्लाघ्य इति सोऽपि रसत्वाच्च्यवताम् । अयमर्थः-यदि नाम सर्वजनानुभावगोचरता तस्य नास्ति, नैतावतासावलोकसामान्यमहानुभावचित्तवृत्तिविशेषवत्प्रतिक्षेप्तुं शक्या । ननु धर्मप्रधानोऽसौ वीर एव संभाव्यत इत्याशङ्कयाह
अभिमानमयत्वेनेति । उत्साहो ह्यहमेवंविध इत्येवंप्राण इत्यर्थः । अस्य चेति । शान्तस्य । तथापीति । ईहामयत्वनिरीहत्वाभ्यामत्यन्तं विरुद्धयोरपीत्यर्थः । वीररौद्रयोस्तु धर्मार्थकामार्जनोपयोगित्वेन तुल्यरूपत्वादत्यन्तविरोधोऽपि नास्ति ।
संगृहातीति । संकलयति, न तु लक्षयति । शृङ्गारादिरसलक्षण एव २५ स्थायिस्वरूपस्य निरूपितत्वादिति भावः ।
1. I. परिकल्पनेन 2. I. दुःखद्वेषी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org