SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ४१-४२) अ. २.सू. १५-१६] काव्यानुशासनम् ११९ ___ ननु च राजादिः किमिति गुर्वादिभ्यः कृतकं भयं दर्शयति, दर्शयित्वा किमिति मृदून करकम्पादीन्दर्शयति, किमिति च भय एव कृतकत्वमुक्तं, सर्वस्य हि कृतकत्वं संभवति-यथा वेश्या धनार्थिनी कृतका रतिमादर्शयति । उच्यते । भये हि प्रदर्शिते गुरुर्विनीतं तं जानाति मृदुचेष्टिततया चाधमप्रकृतिमेनं न गणयति । कृतकरत्यादेश्वोपदिष्टान्न काचित्पुरुषार्थसिद्धिः। यत्र तु राजानः परानुग्रहाय क्रोधविस्मयादि दर्शयन्ति तत्र व्यभिचारितैव, तेषां न स्थायितेति । बीभत्समाह ४१) अहृद्यदर्शनादिविभावाऽङ्गसंकोचाधनुभावाऽपस्मारादिव्यभिचारिणी जुगुप्सा बीभत्सः ॥ १५ ॥ अहृद्यानामुद्वान्तव्रणपूतिकृमिकीटादीनां दर्शनश्रवणादिविभावा अङ्गसङ्कोचल्लासनासांमुखविकूणनाच्छादननिष्ठीवनाद्यनुभावा अपस्मारौत्र्यमोहगदादिव्यभिचारिणी जुगुप्सा स्थायिभावरूपा चर्वणीयतां गता बीभत्सः । यथाउत्कृत्योत्कृत्य कृत्तिं प्रथममथपृथूच्छोफभूयांसि मांसा न्यसस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा । आत्तस्नाय्वन्त्रनेत्रात्प्रकटितदशनः प्रेतरङ्कः करङ्कादङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ।११५। [मा. मा. अं. ५ श्लो. १६ ] अद्भुतमाह ४२) दिव्यदर्शनादिविभावो नयनविस्ताराधनुभावो । हर्षादिव्यभिचारी विस्मयोऽद्भुतः ॥ १६ ॥ दिव्यदर्शनेप्सितमनोरथावाप्त्युपवनदेवकुलादिगमनसभाविमानदिव्येति । दिव्या गन्धर्वादयस्तेषां दर्शनम् । शक्यप्राप्तिरर्थ ईप्सितः अवाक्यप्राप्तिस्त मनोरथः, तयोः प्राप्तिः । उपवने देवकुलादौ च गमन- २५ ।। २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy