________________
ઢ
१०
१५
२०
काव्यानुशासनम्
अजित्वा सार्णवामुमनिष्ट्र विविधैर्मखैः । अदत्वा चार्थमर्थिभ्यो भवेयं पार्थिवः कथम् ॥ ११३ ॥
[ का. द. परि. २ श्लो. २८४ ] तत्र धर्मवीरो नागानन्दे जीमूतवाहनस्य । दानवीरः परशुरामबलिप्रभृतीनाम् । युद्धवीरो वीरचरिते रामस्य ।
इह चापत्पङ्कनिमग्नतां स्वल्पसंतोषं मिथ्याज्ञानं चापास्य यस्तत्वनिश्चयरूपोऽसंमोहाध्यवसायः स एव प्रधानतयोत्साहहेतुः । रौद्रे तु ममताप्राधान्यादशास्त्रितानुचितयुद्धाद्यपीति मोहविस्मयप्राधान्यमिति विवेक: 1
भयानकमाह
४०) विकृतस्वरश्रवणादिविभावं शङ्कादिव्यभिचारि भयं भयानकः ॥ १५ ॥
[ ४०) अ. २. सू. १५
Jain Education International
पिशाचादिविकृतस्वरश्रवणतदवलोकनस्वजनवधबन्धादिदर्शनश्रवणशून्यगृहारण्यगमनादिविभावं करकम्पचलदृष्टि निरीक्षणहृदयपादस्पन्दशुष्कोष्ठकण्ठमुखवैवर्ण्यस्वरभेदाद्यनुभावं शङ्कापस्मारमरणत्रासचापला वेग दैन्य मोहादिव्यभिचारि स्त्रीनीचप्रकृतीनां स्वाभाविकमुत्तमानां कृतकं भयं स्थायिभावश्चर्वणीयत्वमागतं भयानको रसः । यथाग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः पश्चार्द्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् । शष्पैरर्द्धावलीढैः श्रमविततमुखभ्रंशिभिः कीर्णवर्मा पश्योदप्रप्लुतत्वाद्वियति बहुतरं स्तोकमुखी प्रयाति ॥ ११४ ॥ [ अ. शा. अं. १ श्लो. ७
1
७
स्त्रीनीचप्रकृतीनामिति । नोत्तममध्यमप्रकृतीनाम् । कृतकमिति । उत्तमा हि अन्तर्भयाभावेऽपि गुरुभ्यो राज्ञश्च भयं दर्शयन्ति । एवं हि सुतमुत्तमत्वं भवति । प्रभुभक्तत्वं चामात्यानां यथा स्वेच्छाकारी भीत एवास्मीति । [ र. अ. १. श्लो.
1. I. स्वजनबन्धवधादि०
]
कर कम्पाद्यनुभावं
1
For Private & Personal Use Only
www.jainelibrary.org